________________
भूमिका भयहर-भक्तामरकर्तृभिर्भयहरस्तोत्रे उपसंहाररूपा निम्नलिखिता गाथा प्राणायि
"रोग-जल-जलण-विसहर-चोरारि-मइंद-गय-रणभयाई ।
पासजिणनामसंकित्तणेण पसमंति सबाई ॥ १८॥" किमियमपि प्रक्षिप्ता ? । नो चेत् कथं भक्तामरस्य ४३तमं पद्यं प्रक्षिप्तं सम्भवति ।
अथ विषयीक्रियते ३९तमं पद्यम् । कविवरैर्द्विपेन्द्र मृगेन्द्र-दवानल-सर्प-सङ्ग्राम-समुद्र-जलो दर-बन्धनेति भयाष्टकं वर्णितम् । तत्र सङ्ग्रामभयवर्णने द्वे पद्ये प्रणीते । द्वितीयं पद्यं तु नीरसं पुनरुक्त्यात्मकमिति मन्यमानैः ३९तमं पद्यं प्रक्षिप्तमिव गण्यते । परन्तु तचिन्त्यम् । यतः
न चायं नियमो यदुत प्रत्येकभयवर्णनोत्सुकाः कवय एकैकमेव पद्यं विरचयेयुः, यथारुचिहेतुत्वात् , नैषधीयचरित्रे (स०३, श्लो० १०३-११४) कामदशादशकवर्णने व्यभिचाराच्च । इदमुक्तं भवति-नैषधीयचरित्रे प्रथमां दशामुद्दिश्य द्वे पये, द्वितीयाया वर्णने एकं पद्यं, तृतीयाया द्वे, चतुर्थ-षष्ठदशे लक्षीकृत्य तु ऐकमेव, तदनन्तरं पञ्चमदशापरत्वे एकं, सप्तमदशामाश्रित्य द्वे, अष्टम-नवम-दशमदशानां निर्देशार्थ “मेकैकं पद्यं वर्वति । , "चक्षुरागः प्रथमं चित्तरससङ्गसतोऽथ सङ्कल्पः ।
निद्राच्छेदस्तनुता विषय निवृत्तिवपानाशः॥
उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः।" २ लिपि दृशा भित्तिविभूषणं त्वां, नृपः पिबन्नादरनिनिमेषः ।
चक्षुरैरर्पितमात्मचक्षु-रागं स धत्ते रचितं त्वया नु ॥ १०३ ॥ पातुर्दशालेख्यमयीं नृपस्य, स्वामादरादस्तनिमीलयास्ते ।
ममेदमित्यश्रुणि नेत्रवृत्तेः, प्रीतेर्निमेषच्छिदया विवादः॥ १०४॥ ३ स्वं हृद्गता भैमि ! बहिर्गताऽपि, प्राणायिता नासिकयास्यगया।
न चित्रमाक्रामति तत्र चित्र-मेतन्मनो यद् भवदेकवृत्ति ॥ १०५ ॥ (अत्र विरोधाभासाचलङ्काराः) ४ अजस्रमारोहसि दूरदीर्घा, सङ्कल्पसोपानततिं तदीयाम् । श्वासान् स वर्षत्यधिक पुनर्यद्, ध्यानात् तव त्वन्मयतां तदाप्य ॥ १०६ ॥ हृत् तस्य यन्मन्त्रयते रहस्त्वां, तद् व्यक्तमामनयते मुखं यत् ।। तद्वैरिपुष्पायुधमित्रचन्द्र-सख्योचिती सा खलु तन्मुखस्य ॥ १०७॥ ५ क्रममुलाय लावार्थमेकप्रयत्नेनैव इदमकारि कविवरणस्थितस्य रात्रावधिशय्य शय्यां, मोहे मनस्तस्य निमजयन्ती।
आलिङ्गय या चुम्बति लोचने सा, निद्राऽधुना न त्वदृतेऽङ्गना वा ॥ १०८॥ ६ स्मरेण निस्तक्ष्य वृथैव बाणै-लावण्यशेषां कृशतामनायि । अनङ्गतामप्ययमाप्यमानः, स्पधी न साधं विजहाति तेन ॥१०॥ स्वत्प्रापकात् त्रस्यति नैनसोऽपि, त्वय्येष दास्येऽपि न लजते यत् । सरेण बाणैरतितक्ष्य तीक्ष्णै-सूनः स्वभावोऽपि कियान् किमस्य ? ॥ ११ ॥ सारं ज्वरं घोरमपत्रपिष्णोः, सिद्धागदङ्कारचये चिकित्सौ। निदानमौनादविशद् विशाला, साङ्कामिकी तरख रुजेव लज्जा ॥११॥ भ. 6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org