________________
भक्तामरस्तोत्रस्य अनया विचारसरण्या प्रतिभाति अधिकपद्यानामसम्भवः । ननु एवं सत्यपि न्यूनताया अवकाशो वर्तते, यदि डॉ० यकोबीमहोदयमतं स्वीक्रियते । तेषां मते-कल्याणमन्दिरस्तोत्रं भक्तामरस्तोत्रस्थानुकरणरूपम् , मत्तद्विपेन्द्रेत्यादि ४३तमं पद्यं प्रक्षिप्तं, पूर्वगतभयाष्टकवर्णनस्य शुष्कोपसंहाररूपत्वात् । प्रक्षेपसमयस्तु कल्याणमन्दिररचनाया अर्वाचीनः, अन्यथा कल्याणमन्दिरपद्यसङ्ख्यायामापत्तेः । ३९तमं पद्यमप्यवास्तविकमिव पूर्वपद्ये सम्यग्वर्णितभावस्य पुनरावृत्तित्वात् , भयाष्टके सङ्ग्रामभयं विहाय अन्यभयसप्तकस्य वर्णने एकैकपधप्रसङ्गाच, किन्तु प्रक्षेपकालस्तु कल्याणमन्दिररचनासमयात् अर्वाक् । - ग्रन्थस्वरूपनिर्देशात्मक उपोद्धातः, सङ्ग्रहात्मकसूचीरूपस्तूपसंहारः । अनयोस्तदेकयोर्वा स्वीकारः क्रियते नानाग्रन्थकारैरिति सुविदितं विदुषाम् । तथाप्युच्यते किश्चिदेतत्परत्वे । श्रीभगवतीसूत्रे श्रीसिद्धर्षिप्रणीतायां उपमितिभवप्रपञ्चाकथायां इत्यादि ग्रन्थेषु उपोद्वातद्वारा कथनीयस्य वस्तुनो निर्देशः। 'इय' शब्दसूचित उपसंहारो दृश्यते उवसग्गहरस्तोत्र-तिजयपहुत्तस्तोत्र-श्रीविशेषावश्यकभाष्य-ध्यानशतकादिग्रन्थानां प्रान्ते, 'इति'शब्दात्मकस्तु संस्कृतग्रन्थेषु यथा श्रीकुलमण्डनसूरिकृतस्य अष्टदशारवीरस्तवनस्य २१तमे पद्ये ।
अनेन सिद्ध्यति उपसंहारशैल्या अपि प्रामाण्यं प्राचीनत्वं च । एवं सति उपसंहाररूपं पयं यद् भवेत् तत् प्रक्षिप्तं स्यात् इति वक्तव्यं प्रमाणनिरपेक्षं ज्ञेयम् । अपरश्च-उपसंहारस्वरूपवाचिनि वाक्ये पद्ये वा सूचीरूपनिर्देश एव मुख्यं वस्तु, तत्र नानारससम्भावनार्थ कोऽवकाशः? परन्तु न च एतावता नीरसत्वं समुपजायते । यदि इयं मान्यता कक्षीक्रियते काव्यकोविदः, तर्हि भक्तामरस्य ४३तमं पद्यं प्रक्षिप्तं इति उद्गारो धृष्टतात्मकः। - किञ्च-नमिऊणप्रारम्भपदकं भयहरस्तोत्रं व्यरचि श्रीमानतुङ्गमूरिभिरिति ज्ञायते एतत्स्तोत्रगतनिम्नलिखित२१तमपद्यप्रेक्षणेन____ "जो पढइ जो अ निसुणइ, ताणं कइणो य माणतुंगस्स ।
पासो पावं पसमेउ, सयलभुवणचिय चलणो ॥" अत्रेदमपि संसरणीयं शेमुषीशेखरैर्यदुत भयहरस्तोत्रस्य कर्तारः प्रस्तुताः श्रीमानतुङ्गसूरय एव । उक्तं च श्रीप्रभाचन्द्र सूरिभिः श्रीमभावकचरित्रे श्रीमानतुङ्गप्रबन्धे (पृ० १९०)
"ततस्तदनुसारेण, स्तवनं विदधे प्रभुः।
ख्यातं भयहरं नाम तदद्यापि प्रवर्तते ॥ १६३ ॥" सहस्रावधानिश्रीमुनिसुन्दरमरिकृतायां गुर्वावल्यामपि वर्ति उल्लेखोऽयम् -
"आसीत् ततो दैवतसिद्धिऋद्धः, श्रीमानतुङ्गोऽथ गुरुः (२१) प्रसिद्धः । भक्तामराद् बाण-मयूरविद्या-चमत्कृतं भूपमबोधयद् यः ॥ ३५ ॥ भयहरतः फणिराजं, यश्चाकार्षीद् वशंवदं भगवान् । 'भक्तिभ(त्तिब्भ?)रे' त्यादिनम-स्कारस्तवदृब्धबहुसिद्धिः ॥ ३६॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org