________________
भूमिका उभावपि सम्प्रदायौ जिनेश्वराणामष्ट प्रातिहार्याणि मन्येते । तानि च यथा-प्रवचनसारोद्वारे (द्वा० ३९, गा० १)___ "किल्लि कुसुमवुट्ठी देवझुणिचामरासणाई च ।
भावलय भेरि छत्तं जयंति जिणपाडिहेराइं ॥" एतत्प्रातिहार्याष्टकात् अशोका-ऽऽसन-चामरा-ऽऽतपत्ररूपं प्रातिहार्यचतुष्कं प्रपश्चितं अष्टाविंशतितमाद् एकत्रिंशत्पद्यपर्यन्तेषु पद्येषु । अवशिष्टं चतुष्टयं तु न वर्णितम् , अतोऽत्र त्रुटिः । एवं मन्यमानैः प्रायति इति प्रतिभाति ।। ___ अत्र त्रुटिन समस्तीति समादधति एतत्स्तोत्रवृत्तिकाराः श्रीगुणाकरसूरयः एकत्रिंशद्वत्तव्याख्याने ८३तमे पृष्ठे, यथाहि
"अत्र प्रातिहार्यप्रस्तावनाप्रस्तावेऽनुक्ता अपि पुष्पवृष्टि-दिव्यध्वनि-भामण्डल-दुन्दुभयः वधियाऽवतार्याः ।......एतत् सर्वं यत्राशोकतरोः प्रादुर्भावस्तत्र स्याद् देशनाक्षणे । अशोकतरुसहचारित्वात् पृथग् नादृताः कविना ।" ___ अत्र समाधानमिदमपि सम्भवति यदुत द्वात्रिंशत्तमे पद्ये यथाऽर्हत्पदस्थाने त्रिदशकृतनवपद्मस्थापनातिशयोल्लेखेन सर्वेऽपि चतुस्त्रिंशदतिशया उपलक्षणात् ज्ञेयाः तथाऽवशिष्टप्रातिहार्यचतुष्टयमपि।
अपरश्च-वादिकुञ्जरकेसरीत्यादिविरुदधारिश्रीवप्प भटिसूरिवर्यविरचितचतुर्विंशतिकायां पण्णवतिपद्यात्मिकायां षोडश विद्यादेवीषु पञ्चदशानामेव स्तुतिरकारि अम्बादिदेवीनां तु असकृत स्तुतिः, तत्र किं कारणमिति कलयन्तु एतत्कर्मकर्मठाः ।।
किश्च-भक्तामरसमस्यारूपकाव्येषु चतुश्चत्वारिंशत एव पद्यानां पादपूर्तयः । अनेनापि तय॑ते अधिकपद्यानां प्रक्षेपः । नवरं-भक्तामरस्तोत्रं कल्याणमन्दिरस्तोत्रानुसारेण व्यरचि इति केचित् , केचित् तु विपरीतमान्यतावलम्बिनः । भवतु काऽपि मान्यता, परन्तु अनयोः कस्याश्चित् अपि सिद्धिः चतुश्चत्वारिंशन्माप्रपद्यानां स्वीकाराद् विना किं सम्भवति ? । अपरञ्च-यदि समस्तानां प्रातिहार्याणां वर्णनमभीष्टमभविष्यत् स्तोत्रकर्तृणां तर्हि किं चामरवर्णनस्थाने आसनवर्णनात्मकं पद्यं ते व्यरचयिष्यन् ? । दिगम्बरसूचिताधिकपद्यस्वीकारे तु व्यतिक्रमो विशेषतो दरीदृश्यते, यतः तदा च क्रमो यथा
(१) अशोकवृक्षः, (२) सिंहासनम् , (३) चामरम् , (४) छत्रम् , (५) दुन्दुभिः, (६) पुष्पवृष्टिः, (७) भामण्डलम् , (८) दिव्यध्वनिः ।
१ विचारसारप्रकरणेऽपि गा० ४६१ ।
२ छाया
कङ्केलिः कुसुमवृष्टिदेवध्वनि-धामरा-ऽऽसनानि च । भावलयं भेरिश्छनं जयन्ति जिनप्रातिहार्याणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org