________________
भक्तामर स्तोत्रस्य
पद्यसङ्ख्या
गीर्वाणगीर्गुम्फिते पद्यात्मकेऽस्मिन् भक्तामर स्तोत्रे किं चतुश्चत्वारिंशत् पद्यानि उताष्टचत्वारिंशदिति प्रश्नः, दिगम्बरसम्प्रदाये एकत्रिंशत्तमपद्यपर्यन्ते निम्नलिखितपद्यचतुष्टयाधिकताऽवलोकनात्
“गम्भीरताररवपूरितदिग्विभाग - त्रैलोक्यलोकशुभसङ्गमभूतिदक्षः
सद्धर्मराज जयघोषणघोषकः सन् खे दुन्दुभिर्नदति ते यशसः प्रवादी ||३१|| - वसन्ततिलका मन्दारसुन्दरन मेरुसुपारिजात - सन्तानकादिकुसुमोत्करवृष्टिरुद्धा | गन्धोद बिन्दुशुभमन्द मरुत्प्रयाता, दिव्या दिवः पतति ते वचसां ततिर्वा ॥ ३२ ॥ -" शुम्भत्प्रभावलयभूरिविभा विभोस्ते, लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती । प्रोद्यद्दिवाकर निरन्तर भूरिसङ्ख्या, दीया जयत्यपि निशामपि सोमसौम्याम् ॥ ३३ ॥” स्वर्गापवर्गगममार्गविमार्गणेष्टः, सद्धर्मतत्वकथनै कपटुस्त्रिलोक्याः ।
दिव्यध्वनिर्भवति ते विशदार्थसर्व भाषास्वभावपरिणामगुणप्रयोज्यः ॥ ३४ ॥ --" इदमुक्तं भवति - प्रथमत एकत्रिंशत् पद्यानि मान्यन्ते श्वेताम्बर दिगम्बरनामको भयसम्प्रदायाभ्याम् । किन्तु तदान्तरिकं गम्भीरेत्यादि पद्यचतुष्कं दिक्पटैरेव पापठ्यते । ततः परं त्रयोदश पद्यान उभयमान्यानि ।
"गम्भीरेत्यादि चत्वारि पद्यानि तु केनचन पण्डितंमन्येन निर्माय मणिमालायां काचशकलानीव मानङ्गकवितायां प्रवेशितानीत्यपि तद्विलोकनमात्रेणैव कवित्वमर्मविद्भिर्विद्वद्भिर्वोढुं शक्यते" इत्युलेखः काव्यमालायाः सप्तमगुच्छके प्रथमपृष्ठे वर्तते । अनेन सूच्यते एतत्पद्यप्रक्षेप इति । किश्च तत्पद्यस्थाने निम्नलिखितानि पद्यानि दृष्टिपथमवतरन्ति जैनाचार्य श्री विजयवल्लभसूरिशिष्यरत्नमुनिश्रीविचक्षणविजय सत्के पुस्तके --
1
·· उद्यत्सहस्रकरमण्डलसम्भ्रमेण ।
वीक्ष्य प्रभोर्वपुषि कञ्चन काञ्चनाभं, प्रोद्बोधनं भजति कस्य न मानसाब्जम् || २ || दिव्यो ध्वनिर्ध्वनित दिग्बलयस्तवार्हन् !, व्याख्यातुरुत्सुकयतेऽत्र शिवाध्वनीनाम् । तत्वार्थदेशनविधौ ननु सर्वजन्तु, भाषाविशेषमधुरः सुरसार्थपेयः ॥ ३ ॥ विश्वैकजैत्रभटमोहमहीमहेन्द्रं, सद्यो जिगाय भगवान् निगदन्निवेत्थम् । सन्तर्जयन् युगपदेव भयानि पुंसां मन्द्रध्वनिर्नदति दुन्दुभिरुच्चकैस्ते || ४ ||* एतानि पद्यान्यपि प्रक्षिप्तानि न वेति निर्णयन्तु काव्यपरीक्षण विचक्षणाः । अत्र तु एवं परिस्थितौ सत्यां एकत्रिंशत्पद्यप्रान्ते एतादृशानां चतुःपद्यानां रचने को हेतुरिति प्रश्नोत्तरं यथामति सूच्यते
१ 'गम्भीरेत्यादिपद्यचतुष्टयं श्वेताम्बरैर्न व्याख्यासम् अस्माकमध्येतत्प्रक्षिप्तमेव भाति' इति टिप्पणं काव्यमालायाः सप्तमगुच्छकस्य संशोधकानाम् । २-३ 'ध्वनति', 'निशामिव' इति पाठान्तरे । ४ अन्यदपि पद्यचतुष्टयं समस्तीति मुनिराज श्रीविचक्षण विजयाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org