________________
भूमिका
“यो विश्वं वेदवेद्यं जननजलनिधेर्भङ्गिनः पारदृश्वा पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधुवन्धं सकलगुणनिधि ध्वस्तरोषद्विषं तं
बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ १ ॥ " - स्रग्धरा - अकलङ्कस्तोत्रे ( श्लो० ९ )
श्री भक्तामर स्तोत्र समीक्षा
नामनिष्पत्ति:
+---
नामकरणं कारणं भवति । प्रायः तद् विषयनिर्देशात्मकं वर्तते यथा तच्चार्थाधिगमसूत्रम् । तत्रापि यदा किमपि नाम विशेषतो विबुधवर्गे वल्लभतामेति, तदा तत्पदात्मकनामकाः कृतयः सम्भवन्ति, यथा - बिन्दु - मुख- वार्तिक- तरङ्गिणी - समुच्चयादिपदान्तवाची कृतिकलापः- तत्त्वबिन्दुः, न्यायबिन्दुः, योगबिन्दुः, धर्मविन्दुः, ज्ञानविन्दुः परीक्षामुखं हेतुमुखम् तच्चार्थराजवार्तिक, तच्चार्थश्लोकवार्तिकं, मीमांसाश्लोकवार्तिकं, प्रमाणवार्तिकं, जैनतर्कवार्तिकं, न्यायवार्तिकम् ; शृङ्गारवैराग्यतरङ्गिणी, रसतरङ्गिणी, अध्यात्मतरङ्गिणी, न्यायामृततरङ्गिणी, उपदेशतरङ्गिणी, ज्ञानतरङ्गिणी, तत्त्वतरङ्गिणी; अर्हत्सहस्रनामसमुच्चयः, शास्त्रवार्तासमुच्चयः, योगदृष्टिसमुच्चयः, जीतसारसमुच्चयः, प्रमाणसमुच्चयः, शिक्षासमुच्चयः, स्यादिशब्दसमुच्चयः, प्रश्नोत्तरसमुच्चयः ।
श्रीमानतुङ्गसूरीशसन्दृब्धस्य प्रस्तुतस्य भक्तामर स्तोत्रस्य नाम न च विषयव्यक्ती करणात्मकं न वा लोकप्रियपदान्तधारि किन्तु प्रारम्भिकपदावबोधकं समस्ति, आचार्यश्री सिद्धसेनदिवाकरकृत कल्याणमन्दिर स्तोत्रस्येव ( अत्रेदमवधार्यं धीधनैर्यद् जैनसम्प्रदायानुसारेण तार्किकचक्रचक्रवर्तिनः श्रीसिद्धसेन दिवाकराः कल्याणमन्दिरस्तोत्रविधातारः ) । एषा शैली स्वयं कविवरेण कक्षीकृता न वेति प्रश्नस्य निर्णयात्मकमुत्तरं दुःशकं, यथेष्टसाधनाभावात् । न केवलं प्रचलितेयं पद्धतिः जैनसंस्कृतसाहित्ये, किन्तु जैनप्राकृत साहित्यमप्युद्दिश्य इदं वक्तुं न सर्वथाऽस्थानीयं यतः श्रीभद्रबाहुखामिकृतस्य स्तोत्रस्य उवसग्गहरेति नाम्ना प्रसिद्धस्य, श्रीपञ्चप्रतिक्रमणविषयकानामनेकेषां च सूत्राणामपि तथाविधा प्रख्यातिः । वैदिकसाहित्ये ऽपि प्रथा एवंविधा दृश्यते, यतः ऋग्वेदस्य नादीयसूक्तनामकरणे तदादिस्थ 'नासदासी' दितिपदप्रयोगो हेतुः ।
१ ब्रह्माणम् ।
२ एतद् यथा-
“नास॑दास॒नो सदा॑सीत् त॒दानि॒ नासीद् रजो नो व्यो॑मा प॒रो यत् । किमाव॑रीय॒ कुह॒ कस्य॒ शर्म॑न्नम्भः किमा॑स॒द्गह॑नं गभीरम्" (अ०८, भ० ७, व० १७ ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org