________________
२५८
श्रीऋषभस्तुतिः
[श्रीजिनपतिअवगणितनाकिविभवो, नाथ ! सुपर्वालयोऽपि दधते स्म ।
तव मुक्तसुरतरुचयो नो कलधौतश्रियं मुनयः ॥ ६ ॥ हे खामिन् ! तव मुनयो मेरुरपि पराभूतस्वर्गलक्ष्मीकः । तथा त्यक्तदेववृक्षसमूहः । तथा नो सुवर्णश्रियं दधते इति विरोधः । अथवा मुनयस्ते कलधौतं-सुवर्णं तस्य श्रियं तां न धारयन्ति । किंविशिष्टा मुनयः ? अवगणितो नाकिविभुः-इन्द्रो यैस्ते । तथा पुनः किं० ? सुपर्वाणाम्-उत्सवानाम् आलियेभ्यस्ते तथा । पुनरपि किंवि० ? (मुक्ताः-) त्यक्ता सुरते-निधुवने रुचिः-अभिलाषो यैस्ते त्य(मु)क्तसुरतरुचयः ॥६॥
त्वं प्रद्युम्नोऽपि सदा, पद्माया मेलकं न विदधासि ।
न सुरालयमाकाङ्क्षसि, जिनाग्रजन्माऽपि जगतीश ! ॥ ७ ॥ त्वं कन्दर्पोऽपि सर्वदा लक्ष्म्या मातृत्वेन प्रीत्यर्थं व्यञ्जकं मेलक-संसर्ग न करोषि (इति) विरोधः । अथ च त्वं प्रकृष्टतेजाः सन् सभामापायाभ्यां (2) सह सम्बन्धं न विद्धासीति परिहारः । यतो जिनाः स्वर्गमपि नेच्छन्ति ॥ ७ ॥
काव्य (व्ये ?)पनितोऽसि विभो !, सत्सूत्रामर्षितां दधानोऽपि ।
दीक्षायां गीष्पतिभिः, स्फुटयन्नपि दानवर्षित्वम् ॥ ८॥ खामिन् ! त्वं सूत्रामा-इन्द्रस्तस्य ऋषिर्गुरुः । प्रधानइन्द्रर्षित्वं धारयन्नपि शुक्रे असुरगुरुत्वं प्रकटयन्नपि बृहस्पतिभिः दीक्षामहोत्सवेऽस्तु(त) इति विरोधः । अथ सदागम ! असहिष्णुतां धारयन् दानशौण्डत्वं प्रकटयन् त्वं दीक्षाप्रस्तावे वाग्मिभिः काव्यं गद्यपद्यबन्धः (तेन)स्तु(त) इति विरोधपरिहारः ॥ ८ ॥
नारीहितकरनवसुर-तमतपरप्रमद्या परिष्वक्त! ।
त्वमवश्यसि तमिन ! सदाचारोपासितमहो धर्मम् ॥ ९ ॥ __ स्त्रीहितकरप्रत्यग्रनिधुवनसम्मतप्रकृष्टस्त्रिया समालिङ्गित ! हे खामिन् ! तं धर्मे शिष्टाचारसेवितं तनूकरोषीति चित्रम् । किमिति धर्मनायकत्वात् भगवतः । अथवा न शत्रुहितकर ! न द्रव्यरत ! अभीष्टप्रकृष्टसम्यग्ज्ञानकरुणासमालिङ्गित ! स्वायत्तस्वामिन् ! चारो!-प्रधान ! त्वं सितं धर्म पासि-रक्षसि सदा-सर्वदा अहो इति सम्बोधने विरोधपरिहारः ॥ ९॥
सजातिमशोकमहो, सत्करण्डं(?) बन्धुजीवमतिमुक्तम् ।
सुमनःप्रकृतिमपि त्वां, न सङ्गिरन्ते परागभृतम् ॥ १० ॥ शोभनत्वमालिङ्गती किकेल्लिकुसुमां प्रधानकरणकपुष्पं बन्धूकं पुण्ड्रकपुष्पं एवं कुसुमस्वरूपमपि त्वां न प्रतिज्ञातान् न कथयन्ति । कुसुमरेणुधरं कवच इवेति विरोधः । अथ च शोभनमातृपक्षं शोकरहितं सदयं बन्धून् जीवयतीतीव बान्धवपोषकं अत्यन्तकर्ममुक्तं शोभनचित्तव्यापारं त्वामपकृष्टरागपोषकं न भाषन्ते (इति) परिहारः ॥ १० ॥
अय्यष्टापदचिरपि, दीव्यस्य:न जातु चतुरङ्गैः । त्वं देव ! नाभियोग्यपि कथमसि विदरोदरव्यसनः ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org