________________
ङ-परिशिष्टम् । श्रीजिनपतिविरचिता सावचूर्णिका विरोधालङ्कारमण्डिता
॥श्रीऋषभस्तुतिः ॥
प्रीणन्तु जन्तुजातं, नखसुभगा भावुका न नखसुभगाः ।
अभिजातस्यापि सदा, पादाः श्रीनाभिजातस्य ॥ १ ॥ सुखयन्तु सत्त्वसमूहं नखैर्मनोहराः, एवंविधा अपि न नखसुभगा इति विरोधः । परिहारस्त्वेवम्-न न खसुभगा इति अपि तु खसुभगा एव । खानाम्-इन्द्रियाणां चक्षुःश्रोत्रादीनामाह्लादकाः । कुलीनस्य ते कथं न अभिजातस्येति विरोधः । अथ च श्रीमन्नाभिसप्तमकुलकरोद्भवस्य ॥ १ ॥
वृषलाञ्छनोऽपि सुवति, प्रभूतशोऽकार्तिकेयमधिनाथ ! ।
नन्दयति न तामरसं-सदं भवान् नाभिभूतोऽपि ॥ २ ॥ महेश्वरोऽपि अथ च वृषभचिह्नः जनयति अनेकवारं अकुमारम् । अथ च प्रभूतशोकार्तिके पुंसि अयं-शुभावहं दैवम् । ब्रह्माऽपि सन् भगवान् खाश्रयभूतं पद्मं सर्वदा न विकाशयतीति विरोधः । अथ च प्रणतसुरसभां नाभिजो भवानाह्लादयति ॥ २ ॥
पुरुषोत्तमोऽपि न त्वं, जडपतितनयाऽनुरागमुद्रहसि ।
उद्दामधाम विन्दसि, तपसा नालीकबन्धुरपि ॥ ३ ॥ नारायणोऽपि त्वं समुद्रतनयाऽनुरागं न धारयसीति विरोधः। अथ च मूर्खभ्रष्टाचारानुरागं नोद्वहसि । उद्भड(ट)तेजो लभते माघमासेन सूर्योऽपीति चित्रम् । अथ तपश्चरणेनोद्भटतेजो लभसे न असत्यबान्धवः ॥३॥
___व्यक्तविजयोऽपि समिति-व्यासक्तो मृगयसे न गाङ्गेयम् ।
न सुरापगोपरोधं, रचयत्नपि देव ! भीष्मोऽसि ॥ ४ ॥ प्रकटार्जुनोऽपि सङ्ग्रामासक्तोऽपि न गवेषयसि भीष्ममिति विरोधः । अथ च रागादिशत्रूणां जयत्वात् व्यक्तविजयः ईर्यादिसमितिष्वासक्तः गां-पृथ्वीं गेयं-सी(गी.)तं भोग्यत्वेन नाभिलषसि । गङ्गानुवर्तनं कुर्वन्नपि गाङ्गेयो न भवसि । अयं विरोधः । भीष्मस्य हि गङ्गा माता सद्य पूजय भिषेनं(?) कुर्वाणोऽपि न त्वं रौद्रः ॥४॥
न परिष्वजसे सरसां नाथ ! नदीनोऽपि सुरतरङ्गवतीम् ।
त्वं पूर्णकलावानपि न वर्ण्यसे कैरवाहादी ॥ ५॥ नालिङ्गसि सजलां सुरनदी समुद्रोऽपि सन् (इति) विरोधः । अथ च सरसां-रत्नशृङ्गारां निधुवनरङ्गवतीं विशेषणसामर्थ्यात् कामिनी नालिङ्गयसि । हे नाथ ! न दीनः-न दैन्ययुक्तः । त्वं पूर्णचन्द्रोऽपि कुमुदानन्दको न कथ्यसे इति विरोधः । अथ च समस्तकलावान् त्वं रवाहादी कैर्न वर्ण्यसे ? अपि तु सर्वैरपि ॥ ५॥
भ.३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org