________________
२५९
विरचिता]
श्रीऋषभस्तुतिः अयीति कोमलामन्त्रणे । सारिफलाभिलाष्यपि पाशकैः चतुरङ्गैः-छूतविशेषैर्न क्रीडयसीति विरोधः । अथ च सुवर्णकान्तिः इन्द्रियैस्तुरङ्गमैः कृत्वा कदाचिदपि न क्रीडयसीति परिहारः । द्यूताभिलाष्यपि विगतद्यूतव्यसनः कथं भवसीति विरोधः । अथ च देव ! त्वं नाभिसम्बन्धी पण्डितः न विद्यते दरव्यसने यस्य सः अदरव्यसनः इति विरोधपरिहारः ॥ ११ ॥
त्वं सर्वदाऽऽरुणानिह, विभोऽअसा पल्लवान् न पुष्णासि ।
सरसान प्रसूनपुञ्जान , कलिकोपचितानशोकोऽपि ॥ १२ ॥ आरक्तान् पल्लवान् सान्द्रान् पुष्पसमूहान् कुमलरफीतान् त्वं किङ्केल्लिरपि सामस्त्येन सदा न पोषसीति विरोधः । प्रस्वा-मात्रा ऊनाः प्रसूनाः ते च पुमांसश्च तेभ्यो जाताः तान् त्वं शोकरहितः सर्वेषां भीषणान् अपदां कणान् सशृङ्गारान् जननीहीनपुरुषजातांश्च युद्धकोपव्याप्तान् न पुष्णासीति विरोधपरिहारः॥ १२ ॥
निष्कुषितवृषनिकषो, जीवहितो धुवसि चैबुधवियाधम् ।
चित्रमकृतकविरागो, नाथ ! त्वं पूर्वदेवोऽपि ॥ १३ ॥ नाथ ! त्वं पूर्वदेवोऽपि-असुरोंऽपि विध्वस्तसुरेन्द्रपरिभवः बृहस्पतिवत्सलः अविहितशुक्रानुरागः सुरसमूहव्यथां विनाशयसीति चित्रम्-आश्चर्यं (इति) विरोधः । अथ च त्वं प्रथमजिनः निष्कृत्रिमवैराग्यः सर्वसत्त्ववत्सलः निषिद्धधर्मतिरस्कारः वै-स्फुटं पण्डितजनबाधां विनाशयसीति परिहारः ॥ १३ ॥
न विलासी ननखजयी, विभो ! न नागोपघातनिष्णातः ! -
- अलमनवमांसरुचिरसि, कमलविरोध्यपि कथमिव त्वम् ॥ १४ ॥ विभो ! त्वं कमला-हरिणास्तद्विरोधी सिंहोऽपि कथमिति न बिलासी न बिलेषु आस्त इत्येवंशील: न खजयी न हस्तिहतम(नन)निपुणः अप्रत्यापतितमांसाभिलाषीति विरोधः। अथ च स्वामिन् । त्वं भवसीति । किंविशिष्टः ? न भोगी न न स खजयी अपि तु खजयी-इन्द्रियजेतैव, न न पापापघातदक्षः । अतिशयेन प्रधानस्कन्धरुचिः ज्ञानमलप्रद्वेषी परिहारः ॥ १४ ॥
मदमभ्यासिष्वङ्गं, नर्मदया सौहृदं च निर्मुच्य ।
अयि सारङ्गविपक्षं, त्वं भजसेऽनेकपोऽपि कथम् ॥ १५ ॥ हस्तिजलं हस्तिन्या सह सङ्गं नदीविशेषया सह सितत्वं च मुक्त्वा मृगारित्वं हस्ती सन् कथमाश्रयसीति विरोधः । अथ च अहङ्कार ईश्वरं जनसम्बन्धं हास्ययुक्तदयया सौहार्द च स्वक्त्वा भूरिजनरक्षकस्त्वं पृथिव्यां प्रधानं पक्ष-सिद्धान्तमाश्रयसीति परिहारः ॥ १५ ॥
जगतो बन्धुरबन्धुः, सुधीरधीविधुरनरकपरिपन्थी।
समुदितरुचिररुचिस्त्वं, विराजसे मधुरसुरभिवपुः ॥ १६ ॥ त्वं शोभसे विश्वस्य बन्धुः धीमान् धीरहितः विष्णुः न नरकदानवशत्रुः सञ्जातकान्तिः कान्तिरहितवसन्तः अबसन्तस्वरूप इति विरोधः । अथ च विश्वस्य रमणीयबान्धयः निश्चलबुद्धिः कष्टनिरयशत्रुः सम्यग् दिनसमानकान्तिः रमणीयसुरभिशरीरः एवंविधस्त्वं शोभसे ॥ १६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org