________________
२१२
कल्याणमन्दिरस्तोत्रम् 'त्वम् । कां कर्मतापन्नाम् ! 'दुःखाङ्करोद्दलनतत्परता' दुःखानां अङ्कराः दुःखाङ्कराः, दुःखावराणां उद्दलनं-मूलतो निष्कासनं, तत्र तत्परता ताम् । किं कृत्वा ? 'विधाय' । कां कर्मतापन्नाम् ? 'दयाम्' । कस्मिन् ? 'मयि' । मयि किंलक्षणे? 'नते' प्रणते । कया? 'भक्त्या ' ॥
दुःखिनश्च ते जनाश्च दुःखिजनाः, दुःखिजनेषु वत्सलः दुःखिजनवत्सलः तस्य सम्बोधनं हे दुःखिजनवत्सल !। करुणाया भावः कारुण्य, पुण्या चासौ वसतिश्च पुण्यवसतिः, कारुण्यस्य पुण्यवसतिः कारुण्यपुण्यवसतिः-कारुण्यपवित्रगृहं तस्य सम्बोधनं हे कारुण्यपुण्यवसते!। अथवा कारुण्यं च पुण्यं च कारुण्यपुण्ये, कारुण्यपुण्ययोर्वसतिः कारुण्यपुण्यवसतिः, तस्य सम्बोधनं हे कारुण्यपुण्यवसते!। हे 'वरेण्य !' हे मनोहर ! केषाम् ? 'वशिनां' यतिनाम् । महांश्चासौ ईशश्च महेशस्तस्य सम्बोधनं हे महेश! । विपूर्वः धाधातुः 'पञ्चमी हि' (सिद्ध० ३-३-८), 'हो दः' (सिद्ध० ४-१-३१) इति सूत्रेण आकारस्य एत्वं, द्वित्वं च न स्यात् , विधेहि इति जातम् । इति एकोनचत्वारिंशत्तमत्तं वृवृत्तितो वृत्तम् ॥ ३९॥
The poet prays to God to be gracious.
Oh Lord, the cherisher of affection for the miserable! the Protector! the holy abode of compassion (or residence of mercy and merit)! the best amongst those who have controlled their senses! great God! have pity on me who devotedly bow to Thee; and show readiness to destroy sprouts of my sufferings. (39)
निःसङ्ख्यसारशरणं शरणं शरण्य___ मासाद्य सादितरिपुप्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो
वध्योऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥ ४०॥ क० वृ०-हे परमेष्ठिन् ! त्वत्पादपङ्कजमासाद्य चेत् प्रणिधानवन्ध्योऽहमस्मीत्यन्वयः । कवुक्तिः। 'त्वत्पादपङ्कजं' भवत्क्रमकजम् । तव पादः त्वत्पादः 'तत्पुरुषः', त्वत्पाद एव पङ्कजं त्वत्पादपङ्कजं 'कर्मधारयः', पुनर्द्वितीयाज्ञापनाय तदिति । 'आसाद्यापि' प्राप्यापि । 'चेत्' यदि । 'प्रणिधानवन्ध्यः' चेतःसमाधानशून्यो धर्मोद्यमरहितो वा। "प्रणिधानमभियोगे समाधानप्रवेशयोः" इत्यनेकार्थे (हैमे का० ४, श्लो० १५५२)।
'सादितरिपु' इति मिन्नं पदं वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org