________________
श्रीसिद्धसेनदिवाकरकृतम्
२११ Prayers etc., void of sincerity are fruitless.
Oh philanthrophist ! though I have even heard, worshipped and seen Thee, yet I have not reverentially enshrined Thee in my heart. Hence I have become an object of miseries; for, actions, (such as hearing, worshipping and seeing Thee) performed without sincerity ( Bhāva ) do not yield fruits. ( 38 )
त्वं नाथ! दुःखिजनवत्सल ! हे शरण्य! ___ कारुण्यपुण्यवसते! वशिनां वरेण्य!। भत्त्या नते मयि महेश! दयां विधाय ।
दुःखाङ्कुरोइलनतत्परतां विधेहि ॥ ३९ ॥ क० वृ०-हे 'नाथ!' । हे 'दुःखिजनवत्सल'! हे दुःखिलोकस्निग्ध!। दुःखं विद्यते येषां ते दुःखिनः, दुःखिनश्च ते जनाश्च दुःखिजनाः 'कर्मधारयः', दुःखिजनेषु वत्सलो दुःखिजनवत्सलः 'तत्पुरुषः' तस्य सम्बोधनम् । हे 'शरण्य!' हे शरणयोग्य! शरणाहे. शरण्यः तस्य सम्बोधनम् । हे 'कारुण्यपुण्यवसते!' हे कृपापवित्रगृह ! । पुण्या चासौ वसतिश्च पुण्यवसतिः 'कर्मधारयः', कारुण्यस्य पुण्यवसतिः कारुण्यपुण्यवसतिः 'तत्पुरुषः' तस्य सम्बोधनम् ; अथवा कारुण्यपुण्ययोः-कारुण्यधर्मयोर्वसते!। कारुण्यं च पुण्यं च कारुण्यपुण्ये 'द्वन्द्वः', कारुण्यपुण्ययोर्वसतिः कारुण्यपुण्यवसतिः 'तत्पुरुषः' तस्य सम्बोधनम् । हे 'वरेण्य !' हे प्रकृष्ट!। केषां मध्ये ? 'वशिनां' जितात्मनां मध्ये । वशो विद्यते येषां ते वशिनः । “वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः" इत्यनेकार्थे (हैमे का० २, श्लो० ५५७)। हे 'महेश'! महांश्चासावीशश्च महेशस्तस्य सम्बोधनं 'कर्मधारयः' । षडपि सम्बोधनपदानि । भक्त्या नते मयि दयां विधाय दुःखाङ्करोद्दलनतत्परतां त्वं विधेहि इत्यन्वयः।कव॒क्तिः। 'भत्त्या ' भावेन । 'नते' प्रणते । 'मयि'। 'दयाम्'। 'विधाय' कृत्वा । 'दुःखाङ्कुरोद्दलनतत्परतां' दुःखाङ्कुराणां यद् दलनं तत्र तत्परः-तनिष्ठो दुःखाङ्कुरोद्दलनतत्परः तस्य भावस्ताम् । दुःखान्येवाकुराः दुःखाङ्कुराः 'कर्मधारयः', दुःखाङ्कुराणामुद्दलनं दुःखाङ्करोद्दलनं 'तत्पुरुषः', तत्परस्य भावस्तत्परता, दुःखाङ्कुरोद्दलने तत्परता दुःखाङ्करोद्दलनतत्परता तां 'तत्पुरुषः' । त्वं 'विधेहि कुरुष्वेत्यर्थः । इत्येकोनचत्वारिंशत्तमवृत्तार्थः॥३९॥
मा० वि०-त्वं नाथेति । हे 'नाथ !' । हे 'दुःखिजनवत्सल !'। हे 'शरण्य !' । हे 'कारुण्यपुण्यवसते !'। हे 'वरेण्य !'। केषाम् ? 'वशिनाम्' । हे महेश ! भक्त्या नते मयि दुःखाङ्कुरोद्दलनतत्परतां विधेहि-कुरु । 'विधेहि' इति क्रियापदम् । कः कर्ता ?
, 'दुःखितलोक०' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org