________________
श्रीसिद्धसेनदिवाकरकृतम्
२१३ प्रणिधानेन वन्ध्यः प्रणिधानवन्ध्यः 'तत्पुरुषः'। 'अस्मि' वर्ते । किंविशिष्टं त्वत्पादपङ्कजम् ? 'निःसङ्ख्यसारशरणं' निःसङ्ख्यम्-अनन्तं यत् सारं-बलं तस्य शरणं-मन्दिरम् । निर्गतं सङ्ख्यायाः निःसङ्ख्यं तत्पुरुषः', निःसङ्ख्यं च तत् सारं च निःसङ्ख्यसारं 'कर्मधारयः,' निः. सङ्ख्यसारस्य शरणं निःसङ्ख्यसारशरणं 'तत्पुरुषः' । पुनः किम्भूतं त्वत्पादपङ्कजम् ? 'शरणं' रक्षकम्। “शरणं रक्षणे गेहे वधरक्षकयोरपि" इत्यनेकार्थे (हैमे का० ३, श्लो० ८२५)। पुनः किंलक्षणं त्वत्पादपङ्कजम् ? 'शरण्य' शरणयोग्यम् । शरणार्ह शरण्यं तत् । पुनः किंलक्षणं त्वत्पादपङ्कजम् ? 'सादितरिपुप्रथितावदातं' सादितः-क्षयं नीतः रिपूणां-रागादीनां प्रसिद्धोऽवदातो येन तत् 'बहुव्रीहिः' । प्रथितश्चासावदातश्च प्रथितावदातः 'कर्मधारयः', रिपूणां प्रथितावदातो रिपुप्रथितावदातः 'तत्पुरुषः', सादितो रिपुप्रथितावदातो येन तत् 'बहुव्रीहिः' । अथवा सादितरिपु इति भिन्नं विशेषणम् । सादिता रिपवो येन तत् सादितरिपु 'बहुव्रीहिः' तत् । पुनः किंविशिष्टं त्वत्पादपङ्कजम् ? 'प्रथितावदातं' प्रथितोऽवदातो यस्य तद् 'बहुव्रीहिः' । तदाऽहं वध्यो-मारणीयोऽस्मीत्यन्वयः । कर्चुक्तिः । अत्रानुक्तोऽपि चशब्दोऽध्याहार्यः । च-पुनः रागादिरिपूणामिति गम्यते । हे 'भुवनपावन!' हे विश्वपवित्रीकारक ! । भुवनानां पावनं भुवनपावनं, भुवनेषु पावनं भुवनपावनमिति वा 'तत्पुरुषः' तस्य सम्बोधनम् । हा इति खेदे । अहं हतोऽस्मि-दुर्दैवेन प्रहतोऽस्मीत्यन्वयः। कर्चुक्तिः । इति चत्वारिंशत्तमवृत्तार्थः ॥ ४० ॥
मा० वि०–निःसन्ख्येति । हे भुवनपावन !-हे जगत्पवित्रीकरण! त्वत्पादपङ्कजं शरणं आसाद्यापि चेद्-यदि अहं प्रणिधानवन्ध्योऽस्मि । 'अस्मि' इति क्रियापदम् । कः कर्ता ? 'अहम्' । किम्भूतः? 'प्रणिधानवन्ध्यः' नमस्काररहितः । किं कृत्वा? 'आसाद्य' प्राप्य । कथम् ? 'अपि' । किं कर्मतापन्नम् ? 'त्वत्पादपङ्कजम्' । किंलक्षणम् ? निर्गता सङ्ख्या यस्य तत् निःसङ्ख्यं, निःसङ्ख्यं च तत् सारं च निःसङ्ख्यसारं, निःसङ्ख्यसारस्य शरणं निःसङ्ख्यसारशरणं तत्, अनन्तबलसदनमित्यर्थः । शरणशब्देन गृहं प्रोच्यते । पुनः किम्भूतम् ? 'शरण्य' शरणाय योग्यं शरण्यं तत्। पुनः किम्भूतम् ? सादिता-हता ये रागादिशत्रवस्तेषु प्रथितः-प्रसिद्धोऽवदातो यस्य तत् । तदा अहं वध्योऽस्मि-मारणीयोऽस्मि । अर्थात् रागादिशत्रूणामिति गम्यते । ननु वध्यस्तावत् हन्तुं योग्यस्तेन वध्यः, न तदा, हा इति खेदे । अहं हत एवास्मि । 'अस्मि' इति क्रियापदम् । कः कर्ता? 'अहम्' । किम्भूतः? 'वध्यः' । एवं उत्तरवाक्येऽपि अन्वयः ॥
हन्धातुः यप्रत्ययः 'हनो वधः' (सिद्ध० ४-४-२१) इति वध आदेशः, 'अतः' (सिद्ध० ४-३-८२) इति अस्य लोपः, वध्य इति आतम् । इति चत्वारिंशत्तमकाव्यार्थ. निरूपणम् ॥ ४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org