________________
१८२
कल्याणमन्दिरस्तोत्रम् 'जीवलोकः' सकलविश्वप्राणिगणः । जीवैरुपलक्षितो लोकः 'मध्यमपदलोपी तत्पुरुषः। 'समहीरुहोऽपि' सह महीरुहैः-वनस्पतिभिर्वर्तते यः स समहीरुहः 'बहुव्रीहिः । विवोधं किं नोपयाति? अपि तु सूर्योदये पत्रसङ्कोचादिलक्षणां निद्रामपहाय वनस्पतयोऽप्यन्यप्राणिगण इव विबोधं गच्छन्ति । इत्येकोनविंशतितमवृत्तार्थः ॥ १९ ॥
मा० वि०-हे जिन! जनः आस्तां-दूरे तिष्ठतु । ते-तव सविधानुभावाद् धर्मोपदेशसमये तरुरपि अशोको भवति । 'भवति' इति क्रियापदम् । कः कर्ता? 'तरुः । कथम् ? अपि । तरुः किंलक्षणः? न विद्यते शोको यस्य सः 'अशोकः' । कस्मात् ? 'सविधानु. भावात्' समीपमाहात्म्यतः । कस्य ? 'ते' तव । कस्मिन् ? 'धर्मोपदेशसमये' देशनाकाले । तत्त्वतः अशोकनामा तरुर्भवतीत्यर्थः । अथवा न विद्यते शोको यस्मादसौ अशोकः । अध उपविष्टानां शोकनाशः स्यादित्यन्वर्थाश्रयणादशोकश्च । उक्तमर्थं दृष्टान्तेन सम्य. करोति-वा-अथवा दिनपतो अभ्युद्गते सति जीवलोकः किं विबोधं न उपयाति? अपि तु उपयाति । 'उपयाति' इति क्रियापदम् । कः कर्ता ? 'जीवलोकः' । कथम् ? 'न' । के कर्मतापन्नम् ? 'विवोधम्' । कस्मिन् सति ? 'दिनपतौ' सति । किंलक्षणे? 'अभ्युद्गते' उदिते । जीवलोकः कीदृशः? 'समहीरुहः' सह महीरहैः-वृक्षैर्वर्तते यः स समहीरुहः । कथम् ? 'अपि ॥
धर्मस्य उपदेशः धर्मोपदेशः, धर्मोपदेशस्य समयः धर्मोपदेशसमयस्तस्मिन् । सविधस्य अनुभावः सविधानुभावस्तस्मात् । आस्तां पूर्ववत् । दिनस्य पतिः दिनपतिस्तस्मिन् दिनपतौ । जीवैरुपलक्षितो लोको जीवलोकः । तथा तव समीपमाहात्म्यतो जनः अशोकः स्यादिति किं चित्रम् । इति एकोनविंशतितमवृत्तव्याख्यानपद्धतिः ॥ १९ ॥
Jina's vicinity averts sorrow.
Leave aside the case of a human being; (for), even a tree becomes free from sorrow ( As'oka ) on account of its being in Thy proximity at the time Thou preachest religion. Aye, does not the world of living beings including even trees awake at the rise of the sun ? (19)
चित्रं विभो! कथमवाङ्मुखवृन्तमेव
विष्वक् पतत्यविरला सुरपुष्पवृष्टिः? । त्वद्गोचरे सुमनसां यदि वा मुनीश!
गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥ - क. वृ०-हे विभो! एतच्चित्रम्-आश्चर्य, वर्तते इति शेषः । तदेवाह-सुरपुष्पवृष्टिः अविरलाऽवाअखवृन्तमेव कथं विष्वक् पततीत्यन्वयः। कत्रुक्तिः। 'सुरपुष्पवृष्टिः' सुरमुक्तकुसुमवृष्टिः । पुष्पाणां वृष्टिः पुष्पवृष्टिः 'तत्पुरुषः', सुराणां पुष्पवृष्टिः सुरपुष्पवृष्टिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org