________________
श्रीसिद्धसेनदिवाकरकृतम्
१८३ 'तत्पुरुषः' । 'अविरला' निरन्तरा । न विरला अविरला 'तत्पुरुषः' । 'अवामुखवृन्तमेव' अधोमुखविन्टमेव यथा स्यात् तथा। अवाङ् मुखं एव अवाअखं, अवाअखं वृन्तं यत्र तत् 'बहुव्रीहिः' । अवा इत्यव्ययमधोवाचकम् । 'विष्वक्' समन्तात् । गगनाद् भूमौ गच्छतीत्यर्थः । यदिवा हे मुनीश! मुनीनामीशो मुनीशस्तस्य सम्बोधनं 'तत्पुरुषः' । 'त्वद्गोचरे' भवद्विषये । तव गोचरस्त्वद्गोचरस्तस्मिन् 'तत्पुरुषः' । 'सुमनसां' भक्त(शुभ?). चित्तानां देवानां वा । सुष्ठु मनो येषां ते सुमनसः 'बहुव्रीहिः तेषाम् । 'नून' निश्चयेन । 'बन्धनानि' बन्धाः स्नेहाद्यान्तरबन्धनानि निगडादिबाह्यबन्धनानि चाध एव गच्छन्तिअधस्तादेव यान्ति, नाशमुपयान्तीति यावत् । पुष्पाण्यपि हि सुमनसः प्रोच्यन्ते तासां बन्धनानि वृन्तानि त्वदग्रेऽधोमुखानि स्फुरन्ति । वा युक्तमधोमुखवृन्तपुष्पवृष्टिपतनम् । सुमनसूशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च । इति विंशतितमवृत्तार्थः ॥ २० ॥
मा० वि०-चित्रमिति । हे विभो! एतच्चित्रं वर्तते । 'वर्तते' इति क्रियापदम् । किं कर्तृ? 'चित्रम् । एतत् किम् ? सुरपुष्पवृष्टिः अवाझुखवृन्तमेव कथं पतति? । 'पतति' इति क्रियापदम् । का की ? 'सुरपुष्पवृष्टिः' । कथम् ? 'अवामुखवृन्तम्' । सुरपुष्पवृष्टिः कथम्भूता? 'अविरला' घना, सच्छिद्रा न । कथम्? 'विष्वक्' समन्तात् । यदिवेति पक्षान्तरे। हे मुनीश! त्वद्गोचरे सुमनसां बन्धनानि नूनं-निश्चितं अध एव गच्छन्ति । 'गच्छन्ति' इति क्रियापदम् । कानि कतृणि? बन्धनानि । केषाम् ? 'सुमनस' सुष्ठु मनो येषां ते सुमनसस्तेषाम् । कथम् ? 'अधः' नीचैः । कथम् ? 'एव' त्वद्गोचरे सुमनसां स्नेहा. दिबन्धनानि त्रुट्यन्ति । पुष्पाण्यपि सुमनसस्तासामपि बन्धनानां अधःपतनं युक्तमेवेति भावः । सुमनसूशब्देन सहदया जनाः पुष्पाणि च प्रोच्यन्ते । बन्धनशब्देन स्नेहनिगडादिना यन्त्रणं पुष्पाणां वृन्तं चोच्यते । अतोऽर्थद्वैविध्येन शब्दच्छलत इदं व्याख्यानम् ॥ __ अवाङ् मुखानि येषां तानि अवाअखानि, अवाझुखानि वृन्तानि यत्र तत् 'अवासुखवृन्त' क्रियाविशेषणमिदम् । (विषु अश्चतीति क्विपि विष्वम् ) अव्ययत्वात् सेर्लोपः (१) । (पुष्पाणां वृष्टिः पुष्पवृष्टिः,) सुराणां पुष्पवृष्टिः सुरपुष्पवृष्टिः, अथवा सुरैः कृता पुष्पवृष्टिः सुरपुष्पवृष्टिः । तव गोचरः त्वद्गोचरस्तस्मिन् । 'गम्ल गतौ' (सिद्ध धा०) गम्धातुः अन्ति शव् 'गमिषद्यमश्छः' (सिद्ध०४-२-१०६) इति सूत्रेण मस्य छः, 'स्वरेभ्यः' (सिद्ध० १-३-३०) इति छस्य द्वित्वं, 'अघोपे प्रथमोऽशिटः' (सिद्ध० १-३-५०) इति पूर्वछस्य चः शवः अलोपे गच्छन्तीति सिद्धम् । अधस् इत्यव्ययम् । इति विंशतितमकाव्यार्थे विचारः॥२०॥
Jina's presence is miraculous.
Oh pervader of the universe! it is a matter of surprise that uninterrupted shower of celestial blossoms falls all around with their stalks turned downwards; or why, (it is natural that) in Thy presence, oh master of saints! fetters (stalks) of the good-minded (flowers) (ought to ) certainly fall down. (20) .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org