________________
श्रीसिद्धसेन दिवाकरकृतम्
१८१
सितोऽपि शङ्खः विविधवर्णविपर्ययेण किं नो गृह्यते ? अपि तु गृह्यते । 'गृह्यते' इति क्रियापदम् । कथम् ? 'नो' | कैः ? ' काचकामलिभिः' काचकामलो रोगोऽस्ति एषां ते काचकामलिनस्तैः । कः कर्मतापन्नः ? ' शङ्खः ' । किंलक्षणः ? 'सितः' श्वेतः । कथम् ? ' अपि ' । केन? विविधाश्च ते वर्णाश्च विविधवर्णाः, विविधवर्णानां विपर्ययः विविधवर्णविपर्ययस्तेन ॥
प्रपूर्वः 'पर्दिच गतौ' (सिद्ध० धा० ) पद्धातुः क्तप्रत्ययः, 'रदादमूर्च्छमदः क्तयोर्दस्य च' ( सिद्ध० ४ - २ - ६९ ) इति सूत्रेण तस्य नः दस्यापि नः जसि प्रपन्नाः इति जातम् । ( ग्रहीश उपादाने ) ग्रधातुः 'वर्तमाना ते ' ( सिद्ध० ३ - ३ - ६), 'क्यः शिति ( सिद्ध० ३ - ४ -७० ) क्यः, ' ग्रहश्चभ्रस्जप्रच्छः' (सिद्ध० ४ - १ - ८४ ) इति यवृत् रकारस्य ऋकारः । काचकामलरोगवन्तो जनाः सितमपि शङ्खादिपदार्थं पञ्चवर्णं पश्यन्ति, तथा परवादिनः त्वामेव हरिहरादिबुद्ध्या प्रपन्ना इत्यर्थः । इत्यष्टादशवृत्तार्थलेशः ॥ १८ ॥
Oh omnipotent Being! even the followers of the other (non-Jaina) schools of philosophy certainly resort to Thee alone, mistaking Thee for IIari, Hara and others——Thee from whom ignorance has departed. For, Oh God ! is not even a white conch mistaken for one having various colours by those who suffer from Kāchakāmali (eye-diseases likc colour-blindness ) ? (18)
32
X ॐ
धर्मोपदेशसमये सविधानुभावा
दास्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि
किं वा विबोधमुपयाति न जीवलोकः ? ॥ १९ ॥
क० पृ० - हे जिन ! धर्मोपदेशसमये सविधानुभावात् तरुरप्यशोको भवतीत्यन्वयः । कर्तर्युक्तिः । 'धर्मोपदेशसमये' धर्मदेशनाक्षणे । धर्मस्योपदेशो धर्मोपदेशः 'तत्पुरुषः', धर्मोपदेशस्य समयो धर्मोपदेशसमय स्तस्मिन् 'तत्पुरुषः' । 'ते' तव । 'सविधानुभावात् ' सविधं - समीपं तस्यानुभावः- प्रभावस्तस्मात् । सविधस्यानुभावः सविधानुभावस्तस्मात् ' तत्पुरुषः' । 'तरुरपि' वृक्षोऽप्यव्यक्तचेतनोऽपि । 'अशोको भवति' वृक्षो हि नाम्नाऽशोकः स्यात् । जनोभव्यलोको व्यक्त चेतनस्त्वास्तां - दूरे तिष्ठतु । कोऽर्थः ? जनस्त्वशोकः - शोकवर्जितो भवत्येव भवत्प्रभावादित्यर्थः । उक्तमर्थं दृष्टान्तेन समर्थयति । वा अथवा दिनपतावभ्युद्गते जीवलोकः समहीरुहोऽपि विबोधं किं नोपयाति ? अपि तूपयाति । कर्मुक्तिः । 'वा' अथवा | 'दिनपतौ' सूर्ये । दिनस्य पतिर्दिनपतिस्तस्मिन् 'तत्पुरुषः' | 'अभ्युद्गते' उदिते सति ।
१ ' इति भावः' इति ख- पाठः । २ 'भावस्तत्पुरुषस्तस्मात्' इति घ- पाठः । ३ 'चैतन्य' इति घ४ 'पतिस्तत्पुरुषस्तस्मिन्' इति घ- पाठः ।
पाठ: ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org