________________
१७८
कल्याणमन्दिरस्तोत्रम्
इति सूत्रेण परस्मैपदमेवायाति, पुनर्णिगानयने तु आत्मनेपदम् । भव्यैरिति पूर्ववाक्ये उत्तवाक्येsपि योज्यं इत्थमेव वाक्यसङ्गतेः । मध्ये विवर्तत इत्येवंशीलो मध्यविवर्ती तस्य । द्वयोर्युध्यमानयोर्मध्योपविष्टः पुरुषः दक्षिणपार्श्वस्थं वामपार्श्वस्थं च निषेधयति, तेन त्वं मध्यस्थः-अन्तर्वर्ती विग्रहं युद्धं नाशयस्येव तत्त्वतो मध्यवर्ती - रागद्वेषानाकुलितचित्तः, विग्रहं - शरीरं युद्धं च तेन शब्दच्छलेनेदं व्याख्यानंम् । अथवा एतत् स्वरूपं वर्तते -महानुभावाः - महाप्रभावयुक्ता मध्यविवर्तिनो - रागद्वेषानाकुलिताः विग्रहं युद्धं प्रशमयन्ति । मध्यविवर्तिनः इत्यत्र षष्ठयन्तजसन्तव्याख्यानयोर्मध्ये यत् सुन्दरं प्रतिभाति तद् ग्राह्यम् । प्रपूर्वः शमधातुः णिग्प्रत्ययः 'वृद्धिः' 'गुणः' शव् अयादेशः 'वर्तमाना अन्ति' (सिद्ध० ३ - ३ - ६), 'शमोऽदर्शने ' ( सिद्ध०४ - २ - २८ ) इति ह्रस्वः अलोपे प्रशमयन्तीति जातम् ॥ १६ ॥ इति षोडशकाव्यभावना ॥
Oh Jina! How is it that Thou destroyest that very body of the Bhavyas in the interior of which they enshrine Thee? Or why, this is the nature of an arbitrator (one who remains impartial); for, great personages bring the discord ( the body) to an end [or this is the nature; for, great persons who are impartial remove the quarrel ]. ( 16 )
34 उ 30 32
आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या
ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभावः ।
पानीयमप्यमृतमित्यनुचिन्त्यमानं
किं नाम नो विषविकारमपाकरोति ? ॥ १७ ॥
क० वृ० - हे जिनेन्द्र ! अयमात्मा त्वदभेदबुद्ध्या इह मनीषिभिर्थ्यातो भवत्प्रभावो भवतीत्यन्वयः । कर्मुक्तिः । जिनानामिन्द्रो जिनेन्द्र ः 'तत्पुरुषः ', तस्य सम्बोधनं हे जिनेन्द्र ! | 'वदभेदबुद्ध्या' त्वदेकबुद्ध्या । न विद्यते भेदो यस्यां सा अभेदा 'बहुव्रीहिः', अभेदा चासौ बुद्धिश्चाभेदबुद्धिः 'कर्मधारयः', त्वत्तोऽभेदबुद्धिस्त्वदभेदबुद्धिस्तया 'तत्पुरुषः' । 'अयं' स्वसंवेदनप्रत्यक्षः | 'आत्मा' जीवः । 'इह' जगति । 'मनीषिभिः' पण्डितैः । मनीषा - बुद्धिर्विद्यते येषां ते मनीषिणस्तैः । ध्यातः सन् भवत्प्रभावः - त्वत्समानमहिमा भवद्वत् प्रभावो यस्य सः 'बहुव्रीहि:' भवति । उक्तमर्थं दृष्टान्तेन द्रढयति - पानीयमपि अमृतमित्यनुचिन्त्यमानं किं ( नाम ) नो विषविकारमपाकरोति ? अपि तु अपाकरोत्येवेति । कर्मुक्तिः । 'पानीयमपि' जलमपि । 'अमृतं ' पीयूषम् । 'इति' एवम् | 'अनुचिन्त्यमानं' ध्यायमानं सत् । अनुचिन्त्यते इत्यनुचिन्त्यमानं 'तत्पुरुषः' ( 2 ) । नामेति प्रसिद्धार्थे ( अव्ययम् ) ।
१. ' ० तम्' इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org