________________
श्रीसिद्धसेनदिवाकरकृतम्
१७७
व्रीहिः' मध्यस्था जनाः प्रशमयन्ति - उपशमयन्ति । कर्मुक्तिः । पक्षपातरहितानां हि मध्यविवर्तिनां युद्धप्रशमनं युक्तमेव, नायुक्तम् । हे जिन ! त्वमपि च भव्यहृदय मध्यविवर्ती वर्तसे, अतस्तवापि मध्यविवर्तिन एतत् स्वरूपं युक्तमेव । यद् उक्तं विग्रहं - शरीरं शमयसि - नाशयसि ॥
ननु नाशय से इत्यत्र 'चल्याहारार्थेबुधयुधप्रदु खुनशजनः' ( सिद्ध० ३-३ - १०८ ) इति लक्षणसूत्रेण निषेधादात्मनेपदं नश्धातोः कथं स्यात् ? उच्यते - लक्षणसूत्रेण केवलस्य नश्धातोर्णिगन्तस्योपादानात्, इह तु णिगन्तान्नाशेः पुनर्णिगि आत्मनेपदं भविष्यति, तद्यथा - नश्यति शरीरं तन्नश्यद् भव्याः प्रयुञ्जते इति नाशयन्ति, नाशयन्ति शरीरं भव्यास्तान् शरीरं नाशयतस्त्वं प्रयुङ्गे इति भव्यैः शरीरं नाशयसे त्वम् । अत्र नाशेर्द्वितीयणिगन्तस्योभयपदित्वादात्मनेपदम्, अथवा नाशं कुर्वन्तीति नाशयन्ति नामधातोर्णिजि नाशयन्ति शरीरं भव्यास्तान् नाशयतस्त्वं प्रयुङ्गे इति भव्यैः शरीरं नाशय से इति नाशनामधातोर्णिगन्तस्योभयपदित्वात् आत्मनेपदं नायुक्तम् । इति षोडशवृत्तार्थः ॥ १६ ॥ मा०वि०० - अन्तः सदैव इति । हे जिन ! येस्य अन्तर् - मध्ये भव्यैः त्वं विभाव्यसे - चिन्त्यसे । 'विभाव्यसे' इति क्रियापदम् । कैः कर्तृभिः ? 'भव्यैः' । कः कर्मतापन्नः ? 'त्वम्' । कथम् ? ' अन्तर्' । कथम् ? 'सदैव' । कस्य ? 'यस्य' । तदपि शरीरं त्वं भव्यैः कथं नाशयसे? । 'नाशयसे' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । किं कर्मतापन्नम् ? 'शरीरम्' । किंविशिष्टम् ? 'तत्' । कथम् ? 'अपि' | कैः ? ' भव्यैः' । अथ मध्यविवर्तिनः पुरुषस्य एतत् स्वरूपं वर्तते । 'वर्तते' इति क्रियापदम् । किं कर्तृ ? 'स्वरूपम् ' । किम् ? 'एतत्' । कस्य ? ' मध्यविवर्तिनः' | 'हि' निश्चितम् । एतत् किम् ? यत् महानुभावा विग्रहं प्रशमयन्ति । 'प्रशमयन्ति' इति क्रियापदम् । के कर्तारः ? 'महानुभावाः' । कं कर्मतापन्नम् ? 'विग्रहं' युद्धम् ॥
विपूर्वो भूधातुः सौत्रः 'भूङ् प्राप्तौ ' ( सिद्ध० धा० ) णिङ् 'वर्तमाना से' (सिद्ध० ३-३-६ ), 'वृद्धि०' (सिद्ध० ३ -३ - १ ) आवादेशः, 'क्यः शिति' (सिद्ध० ३ - ४ -७० ), क्यप्रत्ययः, 'णेरनिटि' (सिद्ध० ४-३ - ८३ ) णिलोपः विभाव्यसे इति जातम् । युष्मदुशब्दः प्रथमा सिः 'त्वमहं सिना प्राकू चाकः ' ( सिद्ध०२-१-१२ ) इति सिना सह त्वमादेशः । नश्यति शरीरं तत् नश्यत् भव्याः प्रयुञ्जते इति नाशयन्ति तान् नाशयतः त्वं प्रयुनक्षि इति नाशयसे । 'नशौच अदर्शने' (सिद्ध० धा० ) नशुधातुः प्रयोक्तृव्यापारे णिगू पुनरपि णिगू एकस्य णिगो लोपः 'वर्तमाना से' शव्, 'वृद्धिः', 'गुणः०' ( सिद्ध० ३ - ३ - २) अयादेशः नाशय से इति सिद्धम् । पुनर्णिगू यदा नानीयते तदा नाशयसीति स्यात्, 'चल्याहारार्थेङ्बुधयुधप्रुदुखुनशजनः' (सिद्ध० ३-३-१०८)
१ 'यदुत' इति क-घ- पाठः । २ ' यस्य शरीरस्य' इति ख- पाठः । ३ 'नशात् भग्याः' इति ख- पाठः । भ० २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org