________________
श्रीसिद्धसेनदिवाकरकृतम्
१७९ कि नो-निषेधार्थे विषविकारं विषस्य विकारः विषविकारः तं 'तत्पुरुषः' अपाकरोतिनिरस्यति ? । अपि तु जलमप्यमृतबुद्ध्या ध्यायमानं विषविकारमपाकरोति । यतो हि केवलमपि श्वेतध्यानं सर्पादिविषापहाराय स्यात् , किं पुनः पानीयममृततया श्वेतध्यानेन ध्यायमानम् ? । इति सप्तदशवृत्तार्थः ॥ १७ ॥
मा० वि०-आत्मेति । हे जिनेन्द्र ! अयं आत्मा मनीषिभिः-पण्डितैः त्वदभेदबुद्ध्या (इह) ध्यातः सन् भवत्प्रभावो भवति । 'भवति' इति क्रियापदम् । कः कर्ता ? 'आत्मा'। कः? 'अयम्'। किंलक्षणः? 'ध्यातः'। कैः? 'मनीषिभिः' । कया? त्वत्तोऽभेदबुद्धिस्त्वदभेदबुद्धिस्तया ('त्वद०')। आत्मा किंलक्षणः? 'भवत्प्रभावः' भवतः-तव प्रभावो यस्य स भवत्प्रभावः । उक्तमर्थ दृष्टान्तेन सुघटितं करोति-पानीयं अपि अमृतं इति अनुचिन्त्य. मानं नामेति कोमलामन्त्रणे विषविकारं किं नो अपाकरोति ? अपि तु अपाकरोति-निरा. करोति । 'अपाकरोति' इति क्रियापदम् । किं कर्तृ? 'पानीयम्'। किं क्रियमाणम् ? 'अनुचिन्त्यमानम्' । कथम् ? 'इति'। इतीति किम् ? इदं अमृतं, मन्त्रादिसंस्कृतत्वात् । के कर्मतापन्नम् ? 'विषविकारं' सर्पादिफेनादिविषविकारम् ॥ __ आत्मनशब्दः प्रथमा सिः 'नि दीर्घः' (सिद्ध० १-४-८५) इति दीर्घः सिलोपे, न्लो. पश्च आत्मा इति सिद्धम् । मनीषा-बुद्धिरस्ति एषां ते मनीषिणस्तैः । इदम्शब्दः प्रथमा सिः 'अयमियं पुंस्त्रियोः सौ' (सिद्ध०२-१-३८) इति सूत्रेण अयमादेशः। अभेदा चासौ बुद्धिश्च अभेदबुद्धिः, त्वत्तः अभेदबुद्धिस्त्वदभेदबुद्धिस्तया । युष्मद्शब्दः 'स्वमौ प्रत्ययोत्तरपदे चैकस्मिन्' (सिद्ध० २-१-११) इति सूत्रेण युष्म इत्यस्य त्वादेशः 'लुगस्यादेत्यपदे' (सिद्ध०२-१-११३) इति अलोपे त्वद् इति सिद्धम्, अग्रे सुगमम् । 'ध्थें चिन्तायाम्' (सिद्ध० धा०) ध्यैधातुः, 'आत् सन्ध्यक्षरस्य' (सिद्ध०४-२-१) इति आत् , क्तप्रत्ययः प्रथमा सिः ध्यातः इति सिद्धम् । (पां पाने) पाधातुः अनीयप्रत्ययः क्लीवे सौ पानीयं इति सिद्धम् । न म्रियते अनेन इति अमृतम् । 'भृत् प्राणत्यागे' (सिद्ध० धा०) क्तप्रत्ययः, नञः अत्वे क्लीवे सौ अमृतं इति सिद्धम् । अनुपूर्वः 'चितुण स्मृत्यां' (सिद्ध० धा०) चिन्तधातुः 'चुरादिभ्यो णिच्' (सिद्ध० ३-४-१७), 'उदितः स्वरान्नोऽन्तः' (सिद्ध० ४-४-९८) आनशप्रत्ययः क्यप्रत्ययः मागमः, 'णेरनिटि' (सिद्ध० ४-३-८३) णिलोपः क्लीवे सौ अनुचिन्त्यमानं इति जातम् । नो निषेधार्थे अव्ययम् । विषस्य विकारो विषविकारस्तम् । अपआउपसर्गाभ्यां परः कृधातुः 'वर्तमाना तिव्' (सिद्ध० ३-३-६), 'कृग्तनादेरुः' (सिद्ध० ३-४-८३) उप्रत्ययः, 'गुणः०' (सिद्ध० ३-३-२), 'उश्नोः' (सिद्ध० ४-३-२) इति उकारस्य गुणः अपाकरोति इति जातम् । इति सप्तदशकाव्यार्थे संक्षेपः॥ १७ ॥
१ 'काव्यार्थसंक्षेपः' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org