________________
१५०
भक्तामरस्तोत्रवृत्तिः मन्त्रस्त्वन्नाममन्त्रस्तं 'कर्मधारयः' । कथम् ? 'अनिशं' सदा । मनुजाः कथंभूता अपि? 'उरुशृङ्खलवेष्टिताङ्गाः' गुरुलोहदामव्याप्तवपुषः । उरवश्च ते शृङ्खलाश्च उरुशृङ्खलाः 'कर्मधारयः', उरुशङ्खलैर्वेष्टितानि उरुशृङ्खलवेष्टितानि 'तत्पुरुषः', उरुशृङ्खलवेष्टितानि अङ्गानि येषां ते उरुशृङ्खलवेष्टिताङ्गाः 'बहुव्रीहिः । कथम् ? 'आपादकण्ठं' पादगलं यावत् । पादौ च कण्ठश्च पादकण्ठं 'समाहारद्वन्द्वः' । 'प्राणितूर्यसेनाङ्गानां द्वन्द्वैकवद्भावः' इति । पादकण्ठं मर्यादीकृत्य आपादकण्ठम् 'अव्ययीभावः' । मनुजाः पुनः किंभूताः? 'बृहन्निगडकोटिनिधृष्टजवाः' विकटान्दुकानपीडितजङ्घाः । बृहच्चासौ निगडश्च बृहन्निगडः 'कर्मधारयः', बृहन्निगडस्य कोटिवृहन्निगडकोटिः 'तत्पुरुषः', बृहन्निगडकोट्या निघृष्टे बृहन्निगडकोटिनिघृष्टे 'तत्पुरुषः', बृहन्निगडकोटिनिघृष्टे जो येषां ते बृहन्निगडकोटिनिघृष्टजवाः 'बहुव्रीहिः' । कथम् ? 'गाढं' निबिडम् । इति द्विचत्वारिंशत्तमवृत्तार्थः ॥ ४२ ॥
अथाष्टभयनाशेन स्तवं सङ्क्षिपन्नाह-(मत्तेत्यादि)। व्याख्या हे अमेयमहिमन् ! तस्य-प्राणिनो भयं-भीतिराशु-तत्कालं नाश-क्षयम् उपयाति-गच्छति इवोत्प्रेक्षते भिया-भयेन, यो मतिमान्-प्राज्ञः, मतिरस्यास्तीति मतिमान तावकं-भवदीयं तवायं तावकस्तं इमं प्रयुक्तस्वरूपं स्तवं-स्तोत्रमधीते-पठति । भयं किंविशिष्टम् ? 'मत्तद्विपेन्द्र १ मृगराज २ दवानला ३ ऽहि ४ सङ्ग्राम ५ वारिधि ६ महोदर ७ बन्धनो ८ थम् । द्विपानामिन्द्रो द्विपेन्द्रः 'तत्पुरुषः', मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः ('कर्मधारयः'), मृगाणां राजा मृगराजः 'तत्पुरुषः', दवश्वासावनलश्च दवानलः 'कर्मधारयः', वारीणि धीयन्तेऽस्मिन्निति वारिधिः, महच्च तदुदरं च महोदरं 'कर्मधारयः', मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनानि 'द्वन्द्वः', मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनेभ्यः उत्थं मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं 'तत्पुरुषः' । गजेन्द्र १ सिंह २ दावाग्नि ३ सर्प ४ रण ५ समुद्र६ जलोदर ७ बन्धनो ८ त्पन्नम् । इति त्रिचत्वारिंशत्तमवृत्तार्थः॥४३॥
। अथ स्तवप्रभावसर्वस्वं कविराह-(स्तोत्रेत्यादि)।
व्याख्या-हे 'जिनेन्द्र'! केवलिपते!। जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः' । इह-जगति यो जनो-लोकोऽजस्रम्-अनवरतं तव-भवतः स्तोत्रस्रज-स्तवनमालां, स्तोत्रमेव सक् स्तोत्रस्रक् तां 'कर्मधारयः', बहुपदगर्भितत्वात् स्रोत्रस्य मालोपमानं, कण्ठ
' 'द्वन्द्व एकवद्भावः' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org