________________
श्री कनक कुशल गणिविरचिता
भीषणनचक्रपाठीनपीठभयदोल्बणवाडवाग्नयो यत्र स क्षुभितभीषणनऋचक्रपाठीनपीठभयदोल्बणवाडवाग्निस्तस्मिन् 'कर्मधारयः' । इति चत्वारिंशत्तमवृत्तार्थः ॥ ४० ॥
弦 ॐ 30 ॐ
अथ रोगभयं भिन्दन्नाह - ( उद्भूतेत्यादि ) ।
व्याख्या- हे कर्मव्याधिविध्वंसनधन्वन्तरे ! मर्त्या - नरा उद्भूतभीषणजलोदरभारभुग्नाः- उत्पन्नरौद्रोदरवृद्धिभारवक्राः, भग्ना इति पाठे तु भग्ना - मोटिताः । जलेन युक्तमुदरं जलोदरं 'तत्पुरुषः', भीषणं च तज्जलोदरं च भीषणजलोदरं 'कर्मधारयः', उद्भूतं च तद् भीषणजलोदरं चोद्भूतभीषणजलोदरं 'कर्मधारयः', उद्भूतभीषणजलोदरस्य भार उद्भूत भीषण जलोदर भार ः 'तत्पुरुषः', उद्भूतभीषणजलोदरभारेण भुग्नाः उद्भूतभीषणजलोदरभारभुग्नाः 'तत्पुरुषः', शोच्यादीनां दशाम् - अवस्थाम् उपगताः - प्राप्ताः । ' च्युतजीवि - ताशाः ' गलितजीवितवाञ्छाः । जीवितस्याशा जीविताशाः 'तत्पुरुषः', च्युता जीविताशा येभ्यस्ते 'बहुव्रीहिः' । एवंभूताः सन्तो मर्त्याः त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः - भवच्चरणकमलरेणुसुधालिप्तवपुषः । तव पादौ त्वत्पादौ ' तत्पुरुषः', पङ्के जायेते इति पङ्कजे 'तत्पु रुषः', त्वत्पादावेव पङ्कजे त्वत्पादपङ्कजे 'कर्मधारयः', त्वत्पादपङ्कजयो रजः त्वत्पादपङ्कजरजः ' तत्पुरुषः', त्वत्पादपङ्कजरज एव अमृतं त्वत्पादपङ्कजरजोऽमृतं 'कर्मधारयः', त्वत्पादपङ्कजरजोऽमृतेन दिग्धं त्वत्पादपङ्कजरजोऽमृतदिग्धं 'तत्पुरुषः', त्वत्पादपङ्कजरजोऽमृतदिग्धं देहं येषां ते त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः 'बहुव्रीहिः' । मकरध्वजतुल्यरूपाः - काममूर्तयः । कमनीयकान्तय इत्यर्थः । मकरो ध्वजे यस्य स मकरध्वजः 'बहुव्रीहिः', मकरध्वजस्य तुल्यं मकरध्वजतुल्यं 'तत्पुरुषः', मकरध्वजतुल्यं रूपं येषां ते मकरध्वजतुल्यरूपाः ‘बहुव्रीहिः' । 'भवन्ति' स्युः । यथा सुधापानात् सर्वरोगनाशः, तथा भगवत्पादपद्माश्रयणादपि सकलव्याधेरुपशमः । इत्येकचत्वारिंशत्तमवृत्तार्थः ॥ ४१ ॥
१४९
竑
然 उ
अथ बन्धनभयं भिन्दन्नाह - ( आपादेत्यादि ) ।
व्याख्या - हे चक्रेश्वरी चर्चितचरण! मनुजाः - मनुष्या भवन्ति । मनुजाः किंलक्षणाः? 'विगतबन्धभयाः' विध्वस्तबन्धनकभीतयः । बन्धस्य भयं बन्धभयं 'तत्पुरुषः', विगतं बन्धभयं येभ्यस्ते विगतबन्धभयाः 'बहुव्रीहि:' । कथम् ? 'स्वयम्' आत्मनैव । कथम् ? ' सद्यः' शीघ्रम् । मनुजाः किं कुर्वन्तः ? 'स्मरन्तः' ध्यायन्तः । कं कर्मतापन्नम् ? 'त्वन्नाममन्त्रं 'ॐ श्रीॠषभाय नमः' इति पदम् । तव नाम त्वन्नाम 'तत्पुरुषः', त्वन्नामैव
१ 'शोध्यां' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org