________________
श्रीकनककुशलगणिविरचिता
१५१ गतां-निजकण्ठलुण्ठितां धत्ते-करोति पठतीत्यर्थः । स्तोत्रस्रजं किंभूताम् ? 'निबद्धां' रचिताम् । कैः ? 'गुणैः' पूर्वोक्तज्ञानदर्शनचारित्ररूपैः दवरकैः । केन? 'मया' श्रीमानतुङ्गसू. रिणा । कया? 'भक्त्या' भावपूर्वम् । स्तोत्रस्रजं किंलक्षणाम् ? 'रुचिरवर्णविचित्रपुष्पां' रुचिरा-मनोहरा वर्णा-अकाराद्या द्विपञ्चाशदेव विशेषणाद् भूतानि(?) स्पृहणीयानि विचित्राणि यमकश्लेषानुप्रासद्ध्यर्थादीनि तान्येव च पुष्पाणि यस्यां सा रुचिरवर्णविचित्रपुष्पा (ताम् ) । रुचिराश्च ते वर्णाश्च रुचिरवर्णाः 'कर्मधारयः', रुचिरवर्णाश्च विचित्राणि च रुचिरवर्णविचित्राणि 'द्वन्द्वः', रुचिरवर्णविचित्राण्येव पुष्पाणि यस्यां सा रुचिरवर्णविचि. त्रपुष्पा तां 'बहुव्रीहिः'; अथवा रुचिरवर्णा एव विचित्राणि-पञ्चवर्णतया मनोज्ञानि पु. ष्पाणि यस्यां सा (ताम् ), कुसुमानां पञ्चवर्णत्वं प्रसिद्धमेव, अतो विचित्रेतिपदं पुष्पस्यैव विशेषणम् । तं-पुरुषं लक्ष्मीः -राज्यस्वगोपवर्गसत्का श्रीः अवशा-तद्गतचित्ता । पुरुष किंलक्षणम् ? 'मानतुङ्गं' पूजोन्नतम् । मानेन तुङ्गो मानतुङ्गस्तं मानतुङ्गं 'तत्पुरुषः' । मानतुङ्गमिति विशेषणं कथयता स्तोत्रका कविना मानतुङ्ग इति स्वनाम बन्धननिगडाधुपद्रवनाशो राजप्रसादश्चासूचि । 'समुपैति' समन्तात् पार्थमायातीति मङ्गलम् ॥ ४४ ॥
॥ इति भक्तामरस्तोत्रवृत्तिः समाप्ता ॥ श्रीमत्तपगणगगना-गणदिनमणिहीरविजयसूरीणाम् । शिष्याणुना विरचिता, वृत्तिरियं कनककुशलेन ॥१॥ नयनशररसेन्दु(१६५२)मिते, वर्षे वैराटनाम्नि वरनगरे ।
बालजनविबोधार्थ, विजयदशम्यां हि स(सा) समास(ता?) ॥२॥-युगलम् श्लोकानां षट्शती षोडशोत्तरा समजायत प्रत्यक्षरं गणनया वृत्तौ संख्या निवेदिताऽत्र, अङ्कतोऽपि ६१६, सूत्रसहितवृत्तेफेन्थागं ६९६ समाप्तम् ॥
सकलपण्डितशिरोमणिपण्डितश्रीश्रीकेसरसागरगणिशिष्यगणिअनन्तसागरलिपीकृतं संवत् १७६३ वर्षे मृगशिरवदि ४ [दि]दिने श्रीआयुपुरनगरे श्रीशान्तिजिनप्रसादात् ॥ श्रीरस्तु ॥ कल्याणमस्तु ॥ शुभं भवतु ॥ ५॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org