________________
श्रीकनककुशलगणिविरचिता भवोदः शोषणं यस्मिन् स भवोदधिशोषणस्तस्मै 'बहुव्रीहिः' । संसारसागरसन्तापनाय । इति षड्विंशतितमवृत्तार्थः ॥२६॥
पुनयुक्त्या गुणान् स्तौति-(को विस्मयोऽत्रेत्यादि)।
व्याख्या हे 'मुनीश!' मुनीनां ईशो मुनीशस्तस्य सम्बोधनं 'तत्पुरुषः' । नामेति कोमलामन्त्रणे । यदि निरवकाशतया-सर्वाङ्गव्यापकतया, निर्गतोऽवकाशो यस्मादिति निरवकाशः ('बहुव्रीहिः'), निरवकाशस्य भावो निरवकाशता तया, अशेषैः-सर्वैः, न विद्यते शेषो येषु ते अशेषास्तैः 'बहुव्रीहिः',गुणैस्त्वं संश्रितः-आश्रितः। अत्रार्थे को विस्मयः? -किं कौतुकमस्ति ? । अन्यच्च दोषैः-दूषणैः स्वप्नान्तरेऽपि-स्वप्नावस्थायामपि । एकस्मात् स्वप्नादन्यः स्वमः स्वप्मान्तरं तस्मिन् 'तत्पुरुषः', कदाचिदपि-कस्मिंश्चिदपि क्षणे नेक्षितो. ऽसि-न विलोकितोऽसि । अत्रापि को विस्मयः?-किमाश्चर्यम् ? । यतो गरुडदर्शमा भुजगा इव सूर्येक्षणात् तमश्चया इव दूरे नश्यन्ति, तथा त्वत्तो दोषा नेशुः। किंभूतैर्दोषैः? 'उपात्तविविधाश्रयजातगर्वैः' विविधाश्च ते आश्रयाश्च विविधाश्रयाः, उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः उभयत्र 'कर्मधारयः', उपात्तविविधाश्रयैर्जातः उपात्तविविधाश्रयजातः ('तत्पुरुषः'), उपात्तविविधाश्रयजायतो गर्वो येषां ते उपासविविधाश्रयजातगवोस्तैः 'बहुव्रीहिः' । उपात्ताः-प्राप्ता ये विविधा-नानारूपा आश्रया-निलयास्तैजोतउत्पन्नो गर्वो येषां ते तैः । वयं सर्वजनप्रियाः, गुणास्तु स्तोकजनाश्रया एवेति रूपो दर्पो येषाम् । इति सप्तविंशतितमवृत्तार्थः ॥२७॥
अथ वृत्तचतुष्टयेन प्रातिहार्यचतुष्कमाह-(उच्चैरशोकेत्यादि)। व्याख्या-हे सेवकजनकल्पवृक्ष ! भवतः-तव रूपमाभाति-शोभते । कथम् ? 'उ' अतिशयेन । रूपं किंलक्षणम् ? 'अशोकतरुसंश्रितम्' । न विद्यते शोको यत्र सोऽशोक: 'बहुव्रीहिः', अशोकश्चासौ तरुश्चाशोकतरुः 'कर्मधारयः', अशोकतरौ संश्रितं अशोकतरूसंश्रितं 'तत्पुरुषः'। पुनः किंलक्षणं रूपम् ? 'उन्मयूखम्' । (उद्-)ऊवं मयूखाः-किरणा यस्य तद् 'बहुव्रीहिः'। रूपं किंभूतम् ? 'अमलं' निर्मलं मलस्वेदादिरहितम् । न विद्यते मलो यत्र तदमलं 'बहुव्रीहिः' । कथम् ? 'नितान्तं' निरन्तरम् । दृष्टान्तमाह-इव-यथा रखे-सूर्यस्य बिम्ब-मण्डलमाभाति । बिम्बं किंलक्षणम् ? 'पयोधरपार्श्ववर्ति' मेघसमीपस्थम् । पयो धरतीति पयोधरः 'तत्पुरुषः', पयोधरस्य पार्श्व पयोधरपार्थ 'तत्पुरुषः', पयोधरपार्षे वर्तते इत्येवंशीलं पयोधरपार्श्ववर्ति 'तत्पुरुषः' । बिम्बं कथंभूतम् ? 'स्पष्टोल्लसत्किरणं' प्रकटोद्यत्प्रभम् । उल्लसन्तश्च ते किरणाश्च उल्लसत्किरणाः 'कर्मधारयः', स्पष्टा उल्लसकिरणा यस्मिन् तद् 'बहुव्रीहिः' । बिम्ब किंलक्षणम् ? 'अस्ततमोवितान' ध्वस्ताधिकारप्रकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org