________________
१४०
भक्तामर स्तोत्रवृत्तिः
योगस्तं 'बहुव्रीहिः' । विदितो - ज्ञातो ध्यानिभिर्मनोवाक्कायसंवररूपोऽष्टांगरूपो वा योगी यस्य स विदितयोगस्तम् । पुनस्त्वां किंभूतम् ? 'अनेकम्' । न एकोऽनेकस्तं ' तत्पुरुषः', ज्ञानेन सर्वगतत्वात् । पुनस्त्वां किंभूतम् ? 'एकं' जीवद्रव्याद्यपेक्षया । पुनस्त्वां किंभूतम् ! 'ज्ञानस्वरूपं', ज्ञानमेव स्वरूपं यस्य स ज्ञानस्वरूपस्तं 'बहुव्रीहिः', क्षायिककेवलचिन्मयम् । पुनस्त्वां किंभूतम् ? 'अमलं' निर्मलम् । न विद्यते रागादिमलो यत्र सोमलस्तं 'बहुव्रीहिः', अष्टादशदोषरहितम् । पञ्चदश उक्तयो वाऽत्र पृथक्तया ज्ञेयाः । इति चतुर्वि शतितमवृत्तार्थः ॥ २४ ॥
** उई 法
इदानीं बुद्धमहेशविधातृ विष्णुरूपपुरुषचतुष्टयस्वरूपं भगवतोऽवदर्शयति( बुद्धेत्यादि) ।
व्याख्या - हे 'विबुधार्चित !' हे शक्रमहित ! । विबुधैरर्चितो विबुधार्चितस्तस्य सम्बोधनं 'तत्पुरुषः' । त्वमेव बुद्धोऽसि । कस्मात् ? पदार्थेषु 'बुद्धिबोधात् ' मतिप्रकाशात् । बुद्धेart बुद्धिबोधस्तस्मात् 'तत्पुरुषः' । 'त्वं शङ्करोऽसि' शिवो भवसि । शं करोतीति शङ्करः 'तत्पुरुषः' । कस्मात् ? 'भुवनत्रयशङ्करत्वात्' जगत्रय सुखोत्पादकत्वात् । भुवनानां त्रयं भुवनत्रयं 'तत्पुरुषः', शङ्करस्य भावः शङ्करत्वं, भुवनत्रयस्य शङ्करत्वं भुवनत्रय शङ्करत्वं तस्मात् 'तत्पुरुषः' । हे धीर ! त्वं धाताऽसि - स्रष्टा भवसि । कस्मात् ? ' विधानात् ' निष्पा - दनात् । कस्य? ‘शिवमार्गविधेः' मोक्षमार्गविधेः । शिवस्य मार्गः शिवमार्गः 'तत्पुरुषः', शिवमार्गस्य विधिः शिवमार्गविधिस्तस्य ' तत्पुरुषः' । हे भगवन् ! व्यक्तं प्रकटं त्वमेव पुरुषोत्तमोऽसि - पुरुषोत्कृष्टो भवसि । पुरुषेषूत्तमः पुरुषोत्तमः ' तत्पुरुषः ' । इति पञ्चविंशतितमवृत्तार्थः ॥ २५ ॥
然 法 汝 ॐ
( तुभ्यमित्यादि) ।
व्याख्या - हे नाथ! तुभ्यं भवते नमोऽस्तु । तुभ्यं किंभूताय ? 'त्रिभुवनार्तिहराय ' विश्वत्रयीपीडानाशकाय । त्रयाणां भुवनानां समाहारस्त्रिभुवनं 'द्विगु', त्रिभुवनस्य आर्तिः त्रिभुवनार्तिः 'तत्पुरुषः', त्रिभुवनाति हरतीति त्रिभुवनार्तिहरस्तस्मै ' तत्पुरुषः' । तुभ्यं नमोऽस्तु । तुभ्यं कथंभूताय ? 'क्षितितलामलभूषणाय' क्षितितलस्य-भूपीठस्यामलभूषणाय - निर्मलालङ्काराय । क्षितेस्तलं क्षितितलं 'तत्पुरुषः', न विद्यते मलो यत्र तदमलं ( ' बहुव्रीहि: ' ), अमलं च तद् भूषणं चामलभूषणं 'कर्मधारयः', क्षितितलस्यामलभूषणं क्षितितलामलभूषणं तस्मै 'तत्पुरुषः' । तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय ? 'परमेश्वराय' । परमश्चासावीश्वरश्च परमेश्वरः तस्मै 'कर्मधारयः' । कस्य ? ' त्रिजगतः ' । त्रयाणां जगतां समाहारस्त्रिजगत् तस्य 'द्विगु' । त्रैलोक्य प्रकृष्टनाथायेत्यर्थः । हे जिन ! तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय ? 'भवोदधिशोषणाय' भव एवोदधिर्भवोदधिः 'कर्मधारयः',
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org