________________
श्रीकनककुशलंगणिविरचिता तीति जनयति नामधातुः । सहस्ररश्मि कथंभूतम् ? 'स्फुरदंशुजालं' चञ्चत्करकलापम् । स्फुरन्तश्च ते अंशवश्च स्फुरदंशवः 'कर्मधारयः', स्फुरदंशूनां जालं यत्र स स्फुरदंशुजालस्तं 'बहुव्रीहिः' । यथा ऐन्द्री दिक् सूरोदये हेतुः, तथा त्वजन्मनि मरुदेवी जननी हेतुः । इति द्वाविंशतितमवृत्तार्थः ॥ २२॥ - अथ भगवतः परमपुंस्त्वेन स्तुतिमाह-(त्वामामनन्तीत्यादि)।
व्याख्या-'हे मुनीन्द्र !' मुनीनामिन्द्रो मुनीन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः' । मुनयोज्ञानिनस्त्वां परमं पुमांसमामनन्ति-भणन्ति । त्वां किंभूतम् ? 'अमलं' सकलद्वेषमलरहितम् । न विद्यते मलो यत्र सोऽमलस्तं 'बहुव्रीहिः । त्वां किंभूतम् ? 'आदित्यवर्णम्' ।
आदित्यवद् वर्णो यस्य स आदित्यवर्णस्तं 'बहुव्रीहिः' । कथम् ? 'पुरस्तात्' अग्रे । कस्य ? 'तमसः' दुरितस्य अन्धकारस्य वा। त्वां-भवन्तं सम्यगुपलभ्य-प्राप्य मुनयो मृत्युकृतान्तभयं जयन्ति-स्फेटयन्ति । अन्यच्च शिवपदस्य-मोक्षस्थानस्य, शिवस्य पदं. शिवपदं तस्य 'तत्पुरुषा', अन्यः-त्वत्तोऽपरः शिवः-प्रशस्तो निरुपद्रवो वा मार्गो नास्ति । मुक्तिकारणं त्वमेव, अतः श्रयणीयः । इति त्रयोविंशतितमवृत्तार्थः ॥ २३ ॥
अथ सर्वदेवतामयं भगवन्तं स्तौति-(त्वामव्ययमित्यादि)। व्याख्या-हे सर्वदर्शिन् ! सन्तो-विचक्षणास्त्वामेवंविधं प्रवदन्ति-प्रकर्षण बुवते । त्वां किंविशिष्टम् ? 'अव्ययं', न विद्यते व्ययो यस्य सोऽव्ययस्तं 'बहुव्रीहिः', सर्वकालस्थितिकस्वभावम् । पुनस्त्वां किंभूतम् ? 'विभुम्', विभाति परमैश्वर्येणेति विभुस्तं विभुम् । द्वितीयोऽर्थों भण्यते-विभवति-कर्मोन्मूलने समर्थो भवतीति विभुस्तं विभुम् , अथवा विभुम्-इन्द्रादिप्रभुम् । पुनस्त्वां किंभूतम् ? 'अचिन्त्यं', चिन्तनाहश्चिन्त्यः, न चिन्त्योऽचिन्त्यस्तं 'तत्पुरुषः', अध्यात्मिकैरपि चिन्तितुमशक्यम् । तथा त्वां किंभूतम् ? 'असङ्ख्यं', न विद्यते सङ्ख्या यस्य सोऽसङ्ख्यस्तं 'बहुव्रीहिः', गुणैरपि अपरिमेयमित्यर्थः । पुनस्त्वां किंभूतम् ? 'आद्यम्' आदौ भव आद्यस्तमाद्यम् , अथवा चतुर्विंशतिजिनेष्वाद्यस्तमाधंप्रथमं तीर्थङ्करं तस्य तीर्थस्यादिकरत्वादाद्यस्तमायं-प्रथमम् । पुनस्त्वां किंभूतम् ? 'ब्रह्माणं' बृहति-अनन्तानन्देन वर्धते इति ब्रह्मा तम् । पुनस्त्वां किंभूतम् ? 'ईश्वर' नाथम् । पुनस्त्वां किंभूतम् ? 'अनन्त', न विद्यतेऽन्तो यस्य सोऽनन्तस्तं 'बहुव्रीहिः', 'मुक्तिपदप्राप्तत्वात् मृत्युरहितम् । पुनस्त्वां किंभूतम् ? 'अनङ्गकेतुम्', अनङ्गे केतुरनङ्गकेतुस्तं 'तत्पु. रुषः', कामनाशनम् । पुनस्त्वां किंभूतम् ? 'योगीश्वरं', योगो विद्यते येषां ते योगिनः, योगिनामीश्वरो योगीश्वरस्तं 'तत्पुरुषः', योगिनां-मनोवचःकायजितां ज्ञातचतुर्जानिनां वा ईश्वरं-नाथम् । पुनस्त्वां किंभूतम् ? 'विदितयोगम्' । विदितो योगो येन यस्य वा स विदि। 'अज्ञानस्य' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org