________________
१३८
भक्तामर स्तोत्रवृत्तिः
ari' कृतोऽवकाशो येन तत् कृतावकाशं 'बहुव्रीहिः', विहितप्रकाशं धर्माधर्मादीनां नैवं [नैव ] तथा तेन प्रकारेण ज्ञानं विभाति । केषु ? 'हरिहरादिषु ' नारायणमहेशादिषु । हरिश्च हरश्च हरिहरौ 'द्वन्द्वः', हरिहरावादौ येषां ते हरिहरादयस्तेषु 'बहुव्रीहिः' । हरिहरादिषु किंभूतेषु ? ' नायकेषु' लोकैर्देवत्वेन स्थापितेषु । अत्रार्थेऽर्थान्तरन्यासमाह - तेजो-धाम यथा येन प्रकारेण महत्त्वं महिमानं याति प्राप्नोति । केषु ? 'स्फुरन्मणिषु' महारलेषु इन्द्रनीलादिषु । स्फुरन्तश्च ते मणयश्च स्फुरन्मणयस्तेषु 'कर्मधारयः' । तथा च काचशकले - काचखण्डे, काचस्य शकलं काचशकलं तस्मिन् 'तत्पुरुषः', नैव तेजो महत्त्वं याति । काचशकले कीदृशेऽपि ? 'किरणाकुलेऽपि ' रश्मिव्याप्तेऽपि । किरणैराकुलं किरणाकुलं तस्मिन् ' तत्पुरुषः' । काचशकलतुल्या हरिहरादयः, कथं तथा ( दा ?) तत्र ज्ञानं भवेत् ? । इति विंशतितमवृत्तार्थः ॥ २० ॥
ॐ 法
हुई
अथ निन्दास्तुत्योर्मिश्रतामाह - ( मन्य इत्यादि ) ।
व्याख्या - हे सकलदेवोत्तम ! यन्मया हरिहरादय एव दृष्टाः, हरिश्च हरश्च हरिहरौ 'द्वन्द्वः', हरिहरावादी येषां ते (हरि०) 'बहुव्रीहिः', विष्णुमहेशादयो दृष्टाः - विलोकिताः तद् वरं मन्ये- प्रधानं जानामि । येषु-सुरेषु दृष्टेषु - विलोकितेषु हृदयं चित्तं त्वयि - भवद्विषये तोषं - प्रमोदमेति - प्राप्नोति । यतस्तैर्हि तव मुद्राऽपि नाभ्यस्ता, ज्ञानं दूरे अस्तु । भवतात्वया वीक्षितेन - विलोकितेन किं जातम् ? । येन कारणेनान्यः - अपरः कश्चिद् देवो भवान्तरेऽपि - अन्यजन्मन्यपि, एकस्माद् भवादन्यो भवो भवान्तरं तस्मिन् 'तत्पुरुषः', भुवि - लोके मनो न हरति- मानसं न गृह्णाति । यतः सर्वगुणो भवान् तथा भव्यानां चित्तहरणं "कुरुते अन्ये देवा रागद्वेषविसंस्थुलत्वादज्ञानविकलत्वाच्च न मनोहरणं कुर्वते । इत्येकविंश-तितमवृत्तार्थः ॥ २१ ॥
斌 ॐ 法 竑
साम्प्रतं सर्वजननीषु भगवजनन्या अतिशायितां वर्णयति - ( स्त्रीणामित्यादि ) । व्याख्या - हे चतुर्दशस्वप्नसूचित ! स्त्रीणां नारीणां शतानि बहुवचनत्वात् कोटाकोटिसंख्याः पुत्रान् - सुतान् जनयन्ति - प्रसुवते । कथम् ? ' शतशः ' । शतं वारानिति शतशः । तासु मध्ये अन्या - अपरा जननी माता त्वदुपमं त्वत्समं तवोपमा यस्य स त्वदुपमस्तं 'बहुव्रीहिः', सुतं - नन्दनं न प्रसूता - नाजीजनत् । त्वां पुत्रं मरुदेवैव प्रसूता । अत्रोपमामाह- -सर्वा दिशो - निखिलाः काष्ठाः, सर्वाश्च ता दिशश्च सर्वादिशः 'कर्मधारयः, ' सर्वा इति पृथक् पदं वा भानि - नक्षत्राणि दधति - धारयन्ति । प्राच्येव दिग - पूर्वैवाशा सहस्र - रमि-सूर्य, सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तं 'बहुव्रीहिः' जनयति - प्रसूते । जनिं करो
१ ' ० स्तुतिमिश्रमाह' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org