________________
श्रीकनककुशलगणिविरचिता
१३७ गम्यं स्यात् इति । पुनः किंभूतं मुखाजमपूर्व० ? 'अनल्पकान्ति' गुरुतरद्युति । न अल्पा अनल्पा 'तत्पुरुषः', अनल्पा कान्तिर्यस्य तद् ‘बहुव्रीहिः' । कृष्णपक्षे क्षीणतेजस्तस्मादल्पप्रभं चन्द्रबिम्बम् । मुखाजमपूर्व० किं कुर्वत् ? 'विद्योतयत्' प्रकाशयत् । किं कर्मतापन्नम् ? 'जगत्' विश्वम् । शशिबिम्बं तु खण्डेऽप्यसमर्थम् । अथ नित्यं-सदा उल्लसत् अय:-शुभभाग्यं यस्य सन्नित्योदयं 'बहुव्रीहिः,' सदोल्लसच्छुभभागधेयमित्यर्थः । अतश्चन्द्रमण्डलादत्यद्भुतं भवद्वक्रम् । इत्यष्टादशवृत्तार्थः॥ १८॥
रात्रौ चन्द्रस्य दिवा रवे गवतो मुखचन्द्रे सति निरर्थकत्वं वर्णयति-(किमित्यादि)। व्याख्या-हे नाथ! शर्वरीषु-रजनीषु शशिना-चन्द्रेण, शशोऽस्यास्तीति शशी तेन ('तत्पुरुषः') वा-अथवा अह्नि-दिवसे विवस्वता-सूर्येण किं कार्य भवति ? अपि तु न किमपि । केषु सत्सु ? 'तमस्सु' अन्धकारेषु सत्सु । कथंभूतेषु तमस्सु ? 'युष्मन्मुखेन्दुदलितेषु' भवद्वदनचन्द्रविनाशितेषु । मुखमेवेन्दुः मुखेन्दुः 'कर्मधारयः', युष्माकं मुखेन्दुः युष्मन्मुखेन्दुः 'तत्पुरुषः', युष्मन्मुखेन्दुना दलितानि युष्मन्मुखेन्दुदलितानि तेषु 'तत्पुरुषः । अत्र दृष्टान्तमाह-'जीवलोके' भूपीठे । जीवानां लोको जीवलोकस्तस्मिन् 'तत्पुरुषः' । जीवलोके कथंभूते ? 'निष्पन्नशालिवनशालिनि' निष्पन्नैः-पाकं प्राप्तः शालिवनैःकलमादिकेदारैः शालते-शोभते इत्येवंशीलस्तस्मिन् । शालीनां वनानि शालिवनानि 'तत्पुरुषः', निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि 'कर्मधारयः', निष्पन्नशालिवनैः शालते इत्येवंशीलो निष्पन्नशालिवनशाली तस्मिन् 'तत्पुरुषः'। (जलधरैः किंभूतैः१) "जलभारनौः' सलिलभारनमनशीलैः । जलस्य भारो जलभारः 'तत्पुरुषः', जलभारेण नवाः जलभारमधास्तैः 'तत्पुरुषः । एवंविधैर्जलधरैः-मेधैः, जलं धरन्तीति जलधरास्तैः 'तत्पुरुषः', कियत् कार्य स्यात् ? न किमपीत्यर्थः। यथा तृणवल्लीधान्यादिषु निष्पन्नेषु मेघाः केवलं क्लेशहेतुत्वान्निष्फला एव, तथा त्वन्मुखेन्दुना ध्वस्तदुरिततिमिरत्वात् शैत्यसन्तापपीडापहारित्वाच्च चन्द्रसूर्याभ्यां न कोऽप्यर्थः। आगमेऽप्येवो(वमुक्तम्
"चंदाइञ्चगहाणं, पहा पयासेइ परिमियं खित्तं ।
केवलिअं पुण नाणं, लोआलोअं पयासेइ ॥१॥"-आर्या इत्येकोनविंशतितमवृत्तार्थः ॥ १९॥
अथ भगवद्ज्ञानेनान्यदेवान् क्षिपति-(ज्ञानमित्यादि)। व्याख्या-हे लोकालोकप्रकाश ! ज्ञानं यथा-येन प्रकारेण त्वयि-भवति विभाति । ज्ञान-चथावस्थितार्थपरिच्छेदको बोधः । 'विभाति' शोभते । ज्ञानं कीदृशम् ? 'कृताव
स्वदल्प.' इत्यपि पाठः। २छायाथै दृश्यता ४९तमं पृष्ठम् । भ. १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org