________________
१३६
भक्तामरस्तोत्रवृत्तिः देवानां न गम्यो-न वशः, असीति शेषः । त्वं कीदृशः? 'जगत्प्रकाशः' जगदुद्दयोतको वा । जगत्सु प्रकाशो यस्मात् स 'बहुव्रीहिः' । इति षोडशमवृत्तार्थः ॥ १६ ॥
अथ सूर्येणौपम्यनिरासमाह-(नास्तमित्यादि)। व्याख्या-हे 'मुनीन्द्र'! मुनीनामिन्द्रो मुनीन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः' । हे मुनीन्द्र! -हे मुमुक्षुप्रभो! त्वमसि-भवसि । त्वं कीदृशः? 'सूर्यातिशायिमहिमा' सूराधिकमहत्त्वः । सूर्यमतिशेते इत्येवंशीलं सूर्यातिशायी 'तत्पुरुषः', सूर्यातिशायी महिमा यस्य स 'बहुव्रीहिः । तथा यतोऽस्तं-तिरोधानं लं कदाचित् नोपयासि-नोपगच्छसि । सूरः सन्ध्यासमये अस्तं याति, त्वं तु सदा प्रकाशरूपः । तथा त्वं राहुगम्यः, राहोर्गम्यो राहुगम्यः 'तत्पुरुषः' नासि । रविग्रहणकाले राहुगम्यो भवति, न त्वम् । तथा त्वं सहसा-सद्यो युगपद्-एककालं जगन्ति-त्रीणि भुवनानि स्पष्टीकरोषि-प्रकाशयसि । अस्पष्टं स्पष्टं करोषीति स्पष्टीकरोषि । रविः पुनः भुवनैकदेशं क्रमेण प्रकाशयति । तथा त्वं अम्भोधरोदरनिरुद्धमहाप्रभावो नासि । अम्भोधरा-मेघास्तेषामुदरं-कुक्षिस्तेन निरुद्धः-अपनीतो महान् प्रभावः-प्रतापो यस्य सः । अम्भो धरन्तीत्यम्भोधराः 'तत्पुरुषः', अम्भोधराणां उदरं अम्भोधरोदरं 'तत्पुरुषः', अम्भोधरोदरेण निरुद्धोऽम्भोधरनिरुद्धः 'तत्पुरुषः', महांश्चासौ प्रभावश्च महाप्रभावः ‘क धिारयः', अम्भोधरोदरनिरुद्धो महाप्रभावो यस्य स 'बहुव्रीहिः'। रविस्तद्विपरीतो भवति, अतः सूर्यातिशायिमहिमा त्वमसि । इति सप्तदशमवृत्तार्थः ॥१७॥
अथेन्दोरुपमाननिरासमाह-(नित्योदयमित्यादि)। ___ व्याख्या-हे देववृन्दवन्ध ! तव मुखाब्ज-बदनकमलं, मुखमेवाब्ज मुखाजं 'कर्मधारयः', अपूर्वशशाङ्कबिम्ब, शशोऽङ्के यस्य स शशाङ्कः 'बहुव्रीहिः', शशाङ्कस्य बिम्बं शशाङ्कविम्बं 'तत्पुरुषः', अपूर्वं च तत् शशाङ्कबिम्बं चापूर्वशशाङ्कविम्बं 'कर्मधारयः', तव मुखकमलेन्दुमण्डलं विभ्राजते-भाति । किंभूतं मुखाजमपूर्वशशाङ्कबिम्बम् ? 'नित्योदयं' शाश्वतशोभोल्लासम् । चन्द्रबिम्बं तु प्रातरस्तमेति । नित्यमुदयो यस्य तन्नित्योदयं 'बहुव्रीहिः' । पुनः किंभूतं मुखाजमपूर्व० ? 'दलितमोहमहान्धकार' दलितं-ध्वस्त मोहः-अज्ञानं मोहनीयकर्म वा स एव महान्धकारं-महातमो येन (तत्)। महच्च तदन्धकारं च महान्धकारं 'कर्मधारयः', दलितं मोहमहान्धकारं येन तद् 'बहुव्रीहिः' । पुनः मुखाजमपूर्व० किंलक्षणम् ? 'न गम्यं' न वशम् । कस्य ? 'राहुवदनस्य' । राहोर्वदनं राहुवदनं तस्य 'तत्पुरुषः' । दुर्वादिवादस्यागोचरमित्यर्थः । तथा मुखाजमपू. 4० (किंभूतम् ? ) 'वारिदानां' वारि ददतीति वारिदास्तेषां 'तत्पुरुषः', मेघवद् दुष्टाष्टकर्मणां न गम्यं न वशम् । तानि जिनमुखेक्षणात् क्षयं यान्ति । चन्द्रबिम्ब राहोर्मेघानां च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org