________________
श्री कनककुशल गणिविरचिता
'तत्पुरुषः', सम्पूर्णमण्डलशशाङ्ककलाकलापवत् शुत्राः सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः 'तत्पुरुषः' । विश्वव्याप्तौ हेतुं दर्शयति-ये गुणा एकमू-अद्वितीयं नाथं संश्रिताआश्रिताः । कः पुरुषो यथेष्टं - स्वेच्छया, इष्टमनतिक्रम्य यथेष्टम् 'अव्ययीभावः', सञ्चरतः - परिभ्रमतस्तान् गुणान् निवारयति - निषेधयति ? अपि तु न कश्चित् । त्रिजगदपि भवदुणग्रहणतत्परं दृश्यते, तथा च समर्थे प्रभौ सेवाश्रितानां सर्वत्रा स्खलितप्रचारो युक्त एव । इति चतुर्दशमवृत्तार्थः ॥ १४ ॥
域
Jain Education International
ॐ 越 ॐ
( अथ भगवद्वीतरागतामाह - चित्रमित्यादि ) ।
व्याख्या - हे सकलविकारन्यक्कारपर! यदि ते तव मनः - अन्तःकरणं मनागपि - अल्पमात्रमपि त्रिदशाङ्गनाभिः - देवीभिः, त्रिदशानामङ्गना स्त्रिदशाङ्गना स्ताभिः 'तत्पु - रुषः', विकारमार्ग-कामोत्पथं, विकारस्य मार्गों विकारमार्गस्तं 'तत्पुरुषः', न नीतं-न प्रापितम् । द्विकर्मकोऽयं धातुः । 'अत्र' अस्मिन्नर्थे । 'किं चित्र' किमाश्चर्यम् ? अपि तु न किमपि । अत्र दृष्टान्तमाह- कदाचित् - कस्मिंश्चित् क्षणे चलिताचलेन - कम्पितान्यपर्वतेन, चलिता अचला येन स चलिताचलस्तेन 'बहुव्रीहिः', कल्पान्तकालमरुता - प्रलयसमयपवनेन, कल्पस्यान्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तश्चासौ कालश्च कल्पान्तकाल: 'कर्मधारयः', कल्पान्तकालस्य मरुत् कल्पान्तकालमरुत् तेन 'तत्पुरुषः', कर्तृभूतेन मन्दराद्रिशिखरं - मेरुशृङ्ग, मन्दरश्चासावद्रिश्च मन्दराद्रिः 'कर्मधारयः', मन्दराद्रेः शिखरं मन्दराद्रिशिखरं ' तत्पुरुषः' कर्मपदं किं चलितं -- स्वस्थानात् किं धूतम् ? अपि तु न । यथा युगान्ते सर्वपर्वतानां क्षोभो भवति न तु मेरोः, तथा देवीभिरिन्द्रचन्द्रगोपीन्द्ररुद्रादयो देवाः क्षोभिताः, न जिनेन्द्रः । इति पञ्चदशमवृत्तार्थः ॥ १५ ॥
X 然 妖 妗
अथ भगवतो दीपेनोपमानिर्गममाह - ( निर्धूमेत्यादि ) ।
व्याख्या - हे त्रिभुवनैकदीप ! त्वमपरः - अपूर्वो दीपः - कज्जलध्वजोऽसि - वर्तसे, यतो दीपो धूमवान् सवर्तिस्तैले नोहयोतको गृहमात्रप्रकाशो वातेन विध्याता चैकस्थानस्थः स्यात्, त्वमपूर्वदीपः, यतः किंविशिष्टः ? 'निर्धूमवर्तिः' । धूमश्च वर्तिश्च धूमवती 'द्वन्द्वः', धूमवर्तिभ्यां निर्गतो निर्धूमवर्तिः 'तत्पुरुषः' । धूमो द्वेषः वर्तिः कामदशा ताभ्यां रहित इत्यर्थः । त्वं किंभूतः ? ' अपवर्जिततैलपूरः' त्यक्ततैलपूरः । तैलस्य पूरः तैलपूर: 'तत्पुरुषः', अपवर्जितस्तैलपूरो येन सः 'बहुव्रीहिः' । त्यक्त स्नेहप्रकरः । अन्यश्च - हे नाथ ! - हे स्वामिन् ! त्वं कृत्स्नं - सम्पूर्णं पञ्चास्तिकायात्मकं जगत्रयं विश्वत्रयं, जगतां त्रयं जगत्रयं (तत्) 'तत्पुरुष:' इदं - प्रत्यक्षगतं प्रकटीकरोषि - केवलोहयोतेन प्रकाशयसि । प्रकट करोपीति प्रकटीकरोषि । अन्यच्च - त्वं जातु कदाचित् चलिताचलानां - कम्पितगिरीणां, चलिता अचला यैस्ते चलिताचलास्तेषां 'बहुव्रीहिः', मरुतां - वातानां, भगवत्पक्षे मरुतां
१३५
For Private & Personal Use Only
www.jainelibrary.org