________________
१३४
भक्तामरस्तोत्रवृत्तिः क्रियापदम् । किं कर्तृ? 'रूपम्' । 'अस्ति' विद्यते । कथम् ? 'न' । कीदृशं रूपम् ? 'समान' तुल्यम् । कस्य ? 'ते' भवतः । कथम् ? 'यद्' इति यस्मात् कारणात् । हीति निश्चयेन । कस्याम् ? 'भुवि' पृथिव्याम् । रूपं कथंभूतम् ? 'अपरम्' अन्यत्। इति द्वादशमवृतार्थः । १२
अनेन रूपस्यातिशायिता दर्शिता। साम्प्रतं भगवन्मुखं वर्णयति-(वक्रमित्यादि)। व्याख्या-द्वौ कशब्दावत्यन्तासङ्गतिवाचकौ भवतः। यतो हे सौम्यवदन! ते-तव वक्रं-मुखं व वर्तते ? तथा निशाकरस्य-चन्द्रस्य, निशां करोतीति निशाकरस्तस्य 'तत्पुरुषः', विम्बं मण्डलं क्व वर्तते ? । यत् त्वन्मुखस्येन्दोश्च साम्यमुच्यते तत्र महदन्तरं पश्यामि । कथंभूतं वक्रम् ? 'सुरनरोरगनेत्रहारि' सुरा-वैमानिकाः नरा-मानवाः उरगा-भवनवासिनस्तेषां नेत्राणि-लोचनानि तानि (तेषां) हारि-रञ्जनशीलम् । उरसा गच्छन्तीत्युरगाः 'तत्पुरुषः' । सुराश्च नराश्चोरगाश्च सुरनरोरगाः 'द्वन्द्वः' सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि 'तत्पुरुषः', सुरनरोरगनेत्राणि हरतीत्येवंशीलं सुरनरोरगनेत्रहारि 'तत्पुरुषः'। पुनः किंलक्षणं वक्रम् ? 'निःशेषनिर्जितजगत्रितयोपमानं' निःशेषेण-सामस्त्येन निर्जितानि-पराभूतानि जगत्रितयोपमानानि कमलदपेणचन्द्रादीनि येन (तत्) । जगतां त्रितयं जगत्रितयं 'तत्पुरुषः', जगत्रितयस्योपमानानि जगत्रितयोपमानानि 'तत्पुरुषः', निर्गतः शेषादिति निःशेषः 'तत्पुरुषः', निःशेषेण निर्जितानि निःशेषनिर्जितानि 'तत्पुरुषः', निःशेषनिर्जितानि जगत्रितयोपमानानि येन तद् ‘बहुव्रीहिः' । विम्ब कथंभूतम् ? 'कलङ्कमलिनं' मृगशशकश्मलम् (?) । कलङ्केन मलिनं कलङ्कमलिनं 'तत्पुरुषः । यच्चन्द्रमण्डलं वासरे-दिवसे पाण्डुपलाशकल्पं जीर्णपकं पाण्डुरवर्णपत्रसदृशं भवति । पाण्डु च तत् पलाशं च पाण्डुपलाशं 'कर्मधारयः', पाण्डुपलाशस्य कल्पं पाण्डुपलाशकल्पं 'तत्पुरुषः'। तेन त्वन्मुखस्योपमानचन्द्रो न घटते । इति त्रयोदशमवृत्तार्थः ॥ १३ ॥
अथ गुणव्याप्तिमाह-(सम्पूर्णेत्यादि)। व्याख्या-हे 'त्रिजगदीश्वर'! हे त्रिभुवननाथ! । त्रयाणां जगतां समाहारस्त्रिजगत् 'द्विगुः,' त्रिजगतः ईश्वरः त्रिजगदीश्वरस्तस्य सम्बोधनं 'तत्पुरुषः' । तव गुणाः-क्षमावैराग्यादयः कर्तृभूतास्त्रिभुवनं-त्रिजगत् त्रयाणां भुवनानां समाहारस्त्रिभुवनं 'द्विगुः' कर्म लङ्घयन्ति । लङ्घनं लविः लड्विं कुर्वन्तीति लङ्घयन्ति-अतिक्रामन्ति, आत्रिलोकी तिष्ठन्तीत्यर्थः । गुणाः किंविशिष्टाः? 'सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः' आश्विनपूर्णिमासम्बन्धी शशाङ्क:-चन्द्रस्तस्य कलाकलापः-करनिकरस्तद्वच्छुभ्राः-धवलाः । सम्पूर्ण मण्डलं यस्य स सम्पूर्णमण्डलः 'बहुव्रीहिः', शशोऽङ्के यस्य स शशाङ्क: 'बहुव्रीहिः', सम्पूर्णमण्डलश्चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः 'कर्मधारयः', कलानां कलापः कलाकलापः 'तत्पुरुषः', सम्पूर्णमण्डलशशाङ्कस्य कलाकलापः सम्पूर्णमण्डलशशाङ्ककलाकलाप:
पमानं चन्द्रे न' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org