________________
श्री कनककुशल गणिविरचिता
१३३
अवलोक्य । कं कर्म तापन्नम् ? ' भवन्तं' त्वाम् । भवन्तं कीदृशम् ? 'अनिमेषविलोकनी - यम्' । न निमेषेण विलोक्यते - दृश्यते इति अनिमेषविलोकनीयस्तं ' तत्पुरुषः ' । अथवा विलोक्यते इति विलोकनीयः, निमेषेण विलोकनीयो निमेषविलोकनीयः 'तत्पुरुषः,' न निमेषविलोकनीयः अनिमेषविलोकनीयः 'तत्पुरुषः' । अतिशायिरूपवन्तं भवन्तं पश्यन्तो नेत्रनिमीलनमपि नरा न कुर्वन्तीत्यर्थः । अत्रार्थेऽर्थान्तरन्यासमाह – दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं अशितुं क इच्छेत् इत्यन्वयः कत्राक्तिः । ' इच्छेत्' इति क्रियापदम् । कः कर्ता ? 'कः' प्राणी । 'इच्छेत्' अभिलषेत् । किं कर्तुम् ? 'अशितुम्' आस्वादयितुम् । किं कर्मतापन्नम् ? 'जलं' पानीयम् । किंभूतं जलम् ? 'क्षारं' दुष्टास्वादम् । कस्य? 'जलनिधेः' लवणसमुद्रस्य । जलं निधीयतेऽस्मिन्निति जलनिधिस्तस्य 'तत्पुरुषः' । किं कृत्वा ? 'पीत्वा' आस्वाद्य । किं कर्मतापन्नम् ? 'पयः' जलम् । पयः कीदृशम् ? 'शशिकरद्युति' चन्द्रकिरणरश्मि । शशोऽस्यास्तीति शशी, शशिनः कराः शशिकराः 'तत्पुरुषः', शशिकरवद् द्युतिर्यस्य तत् ( तद् ) ' बहुव्रीहिः,' उज्ज्वलमित्यर्थः । कस्य? 'दुग्धसिन्धोः' क्षीरसागरस्य । दुग्धस्य सिन्धुः दुग्धसिन्धुः तस्य ' तत्पुरुषः' । न कश्चिदिच्छेदित्यर्थः । इति एकादशमवृत्तार्थः ॥ ११ ॥
姓 38 22
( भगवतो रूपातिशयतां दर्शयन्नाह - यैरित्यादि) ।
व्याख्या-- - अहमेवं मन्ये- भवद्देहनिष्पत्तये येऽणवः प्रवृत्तास्ते तावन्त एव यदाह - हे 'त्रिभुवनैकललामभूत !' जगत्रितयाद्वितीय तिलकोपम ! । नकारान्तो ललामशब्दो नपुंसकलिङ्गोऽस्ति । भूतशब्द इवार्थे । त्रयाणां भुवनानां समाहारस्त्रिभुवनं 'द्विगु', एकं च तल्ललाम चैकललाम 'कर्मधारयः', त्रिभुवने एकललाम त्रिभुवनैकललाम 'तत्पुरुषः', त्रिभुवनैकललामेव त्रिभुवनैकललामभूतस्तस्य सम्बोधनम् ('तत्पुरुषः ') । तेऽपि अणवस्तावन्त एव वर्तन्ते कर्त्राक्तिः इत्यन्वयः । 'वर्तन्ते' इति क्रियापदम् ( अध्याहार्यम् ) | के कर्तारः ? 'अणवः' । किंविशिष्टा अणवः ? ' तावन्तः ( एव )' तत्प्रमाणा एव । नान्ये सन्तीत्यर्थः । कथम् ? ' खलु' निश्चये । अणवः किंभूताः ? 'ते' । ते के ? यैः परमाणुभिस्त्वं निर्मापितः कमोक्तिः कः इत्यन्वयः । 'निर्मापितः' इति क्रियापदम् । कैः कर्तृभिः ? ' परमाणुभिः' । परमाश्च ते अणवश्च परमाप्रणवस्तैः 'कर्मधारयः' । 'निर्मापितः' निष्पादितः । परमाणुभिः किंभूतैः ? 'यैः' । पुनः किंविशिष्टैः परमाणुभिः ? ' शान्तरागरुचिभिः' । शान्तश्चासौ रागश्च शान्तरागः 'कर्मधारयः', शान्तरागस्य रुचिर्येषु ते शान्तरागरुचयस्तैः शान्तरागरुचिभिः ('बहुव्रीहिः ' ) । उपशमरसनिष्पन्नैरित्यर्थः । अथवा हे 'शान्तराग !' हे वीतराग ! | शान्तो रागो यस्मिन् स शान्तरागस्तस्य सम्बोधनं 'बहुव्रीहिः' । हे 'रुचिभिः परम' ! कान्तिभिरुत्तम ! | अणुभिरिति कर्तृपदम् । अणुभिः परमाणुभिरित्यर्थः । कः कर्मतापन्नः ? ' त्वं' भवान् । कथमेवं ज्ञायते ? यद् - यस्मात् ते समानमपरं रूपं नास्ति कर्बोक्तिः इत्यन्वयः । ' अस्ति' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org