________________
१३२
भक्तामर स्तोत्र वृत्तिः
पद्माकरेषु जलजानि विकाशभाजि कुरुते इत्यन्वयः । ' कुरुते' इति क्रियापदम् । का कत्री ? 'प्रभा' छाया । 'कुरुते' विधत्ते । कथम् ? 'एव' निश्चयेन । कानि कर्मतापन्नानि ? 'जलजानि' पद्मानि । जले जायन्त इति जलजानि 'तत्पुरुषः ' । किंभूतानि ? 'विकाशभाजि' स्मेराणि । विकाशं भजन्त इति विकाशभाजि तानि 'तत्पुरुषः' । केषु ? ' पद्माकरेषु' सरस्सु । पद्मानामाकरो येषु ते पद्माकरास्तेषु 'बहुव्रीहिः' । यदि सूर्योदयात् पूर्वप्रवर्तनी प्रभा पद्मविकाशिनी भवति, तदा सूर्यस्य किमुच्यते ?, तथा अर्हद्गुणोत्कीर्तनरूपं स्तवनं दूरे आस्तां जिननामग्रहणसङ्कथैव सर्वदुरितनाशिनी । इति नवमवृत्तार्थः ॥ ९ ॥
1
श्र श्र MA
अथ जिनस्तुतिफलमाह - ( नात्यद्भुतमित्यादि ) |
व्याख्या - हे 'भुवनभूषण !' हे विश्वमण्डन ! | भुवनानां भूषणं भुवनभूषणं तस्य सम्बोधने हे भुवनभूषण ! ' तत्पुरुषः' । हे 'भूतनाथ' ! हे भूतप्रभो ! । भूतानां नाथो भूतनाथस्तस्य सम्बोधनं हे भूतनाथ ! 'तत्पुरुषः' । अथवा हे 'भुवनभूषणभूत !' भूतशब्द उपमानवाचकः हे विश्वमण्डनसमान ! । भुवनस्य भूषणं भुवनभूषणं 'तत्पुरुषः', भुवनभूषणमित्र भुवनभूषणभूतस्तस्य सम्बोधनं हे भुवनभूषणभूत ! 'तत्पुरुषः' । हे 'नाथ' ! हे प्रभो ! | भूतैर्गुणैर्भवन्तमभिष्टुवन्तो भवतस्तुल्याः भवन्तीत्यन्वयः कत्रक्तिः । 'भवन्ति' इति क्रियाप• दम् | के कर्तारः ? ' जनाः' । 'भवन्ति' स्युः । जनाः किं कुर्वन्तः ? 'अभिष्टुवन्तः स्तुवन्तः । कं कर्मतापन्नम् ? 'भवन्तं' त्वाम् । जनाः किंलक्षणाः ? 'तुल्याः' समानाः । कस्य ? 'भवतः ' तव । कैः ? 'गुणैः' ज्ञानादिभिर्गुणैः । किंभूतैः ? 'भूतैः' जातैः । कस्याम् ? 'भुवि’ पृथिव्याम् । एतन्नात्यद्भुतं - नातिचित्रम् । अतिशयेनाद्भुतमत्यद्भुतं ' तत्पुरुषः । अत्र व्यतिरेकमाह- ननु - निश्चितं वा अथवा किं कार्य - किं प्रयोजनं भवति तेन स्वामिना ? अपि तु न किमपि । क्व ? 'इह भुवि' जनमध्ये । तेन केन ? आश्रितं भूत्या आत्मसमं न करोतीत्यन्वयः, कत्रक्तिः । 'करोति' इति क्रियापदम् । कः कर्ता ? 'यः' स्वामी । कथम् ? 'न' | कं कर्मतापन्नम् ? 'आश्रितं' सेवकम् । कया ? 'भूत्या' ऋद्ध्या । किंभूतम् ? ' आत्मसमं' निजतुल्यम् । आत्मनः (ना) सम आत्मसमः 'तत्पुरुषः । अहमपि तीर्थङ्करं स्तुवन् तद्ध्यानैकमनास्तीर्थकृङ्गोत्रार्जको भविताऽस्मीति कवेराशयः । इति दशमवृत्तार्थः ॥ १० ॥
冷。
Jain Education International
श्र
श्र 延
( दृष्ट्रवेत्यादि) ।
व्याख्या -- जनस्य चक्षुरन्यत्र तोषं नोपयातीत्यन्वयः कर्त्रीति: । 'उपयाति' इति क्रियापदम् । किं कर्तृ ? 'चक्षुः' लोचनम् । 'नोपयाति' न लभते । कस्य ? 'जनस्य' लोकस्य । कं कर्मतापन्नम् ? 'तो' तुष्टिम् । क्व ? 'अन्यत्र' परस्मिन् । किं कृत्वा ? 'दृष्ट्वा '
For Private & Personal Use Only
www.jainelibrary.org