________________
श्रीकनककुशलगणिविरचिता नानाम् । कस्मात् ? 'प्रभावात्' महिम्नः । कस्य ? 'तव' । सन्त एव परगुणग्रहणे लम्पटाः, यतः
"मनसि वचसि काये पुण्यपीयूषपूर्णा
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥ १॥"-मालिनी
-(नीतिशतके श्लो०७०) न खलाः । उक्तं च
"सीसं धुणि हिययं, चमक्कि पुलइयं च अंगेहिं ।
तहवि हु खलस्स वाणी, परगुणगहणे न निस्सरिआ ॥ १॥"-आर्या नन्विति निश्चये उदबिन्दुर्नलिनीदलेषु मुक्ताफलद्युतिमुपैति । 'उपैति' इति क्रियापदम् । कः कर्ता ? 'उदबिन्दुः' वारिच्छटा । उदकस्य बिन्दुरुदविन्दुः 'तत्पुरुषः' । उदकशब्द. स्योद इति निपातः । 'उपैति' उपगच्छति । कां कर्मतापन्नाम् ? 'मुक्ताफलद्युति' मौक्तिकच्छायाम् । मुक्ताफलस्य द्युतिर्मुक्ताफलद्युतिस्तां 'तत्पुरुषः' । केषु ? 'नलिनीदलेषु' पग्निनीपत्रेषु । नलिनीनां दलानि नलिनीदलानि तेषु 'तत्पुरुषः । यथा पद्मिनीपत्रस्थजलबि. न्दुर्मुक्ताफलच्छायां धत्ते, तथा तव स्तवोऽपि त्वत्प्रभावादुत्तमचित्तानन्दकारकः । इत्यष्टमवृत्तार्थः ॥ ८॥
अथ सर्वज्ञनामग्रहणमेव विघ्नहरमाह-(आस्तामित्यादि)।
व्याख्या-हे अष्टादशदोषनि शन! तव स्तवनमास्तामित्यन्वयः । 'आस्ताम्' इति क्रियापदम् । किं कर्तृ? 'स्तवनं' स्तोत्रम् , गुणरहस्योत्कीर्तनमिति यावत् । 'आस्तां' दूरे तिष्ठतु । स्तवनं किंभूतम् ? 'अस्तसमस्तदोष' निमूलितनिखिलदूषणम् । समस्ताश्च ते दोषाश्च समस्तदोषाः 'कर्मधारयः', अस्ताः समस्तदोषा येन तद् 'बहुव्रीहिः' । कस्य ? 'तव' भवतः । त्वत्सङ्कथाऽपि जगतां दुरितानि हन्तीत्यन्वयः। 'हन्ति' इति क्रियापदम् । का कर्तृ(त्री) ? 'त्वत्सङ्कथाऽपि' त्वत्सम्बन्धी संलापोऽपि, त्वद्विषयिणी पूर्वभवसम्बन्धवार्ताs. पीति यावत् । तव सङ्कथा त्वत्सङ्कथा 'तत्पुरुषः' । 'हन्ति' निर्नाशयति । कानि कर्मतापन्नानि ? 'दुरितानि' पापानि विघ्नान् वा । केषाम् ? 'जगतां' लोकानाम् । उक्तं च
"चिरसंचियपावपणा-सणीइ भवसयसहस्समहणीए ।
चउवीसजिणविणिग्गय, कहाइ वोलंतु मे दिअहा ॥१॥"-आर्या दृष्टान्तमाह-सहस्रकिरणो दूरे आस्ताम् इत्यन्वयः । 'आस्ताम्' इति क्रियापदम् । का कर्ता ? 'सहस्रकिरणः सूर्यः । सहस्रं किरणा यस्य स 'बहुव्रीहिः । कथम् ? 'दूरे'। प्रभैव १ छायाथै दृश्यतां २३तमं पृष्ठम् । २ छायार्थ दृश्यतन २५समं पृष्ठम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org