________________
१५०
भक्तामरस्तोत्रवृत्तिः मधुरस्वरवतां पंक्तावुपविशति, तथाऽहं स्तोकग्रन्थोऽपि त्वत्प्रभावात् तव स्तवं कुर्वाणः प्रवीणपंक्तिगतो भविष्यामि । इति षष्ठवृत्तार्थः ॥ ६॥
हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाह-(त्वत्संस्तवेनेत्यादि)।
व्याख्या-हे नाथ! त्वत्संस्तवेन शरीरभाजां पापं क्षणात् क्षयमुपैतीत्यन्वयः। 'उपैति' इति क्रियापदम् । किं कर्तृ? 'पापम्' अष्टविधकर्म । 'उपैति' गच्छति । कं कर्मता. पन्नम् ? 'क्षयं' नाशम् । केषाम् ? 'शरीरभाजां' प्राणिनाम् । शरीरं भजन्तीति शरीरभाजस्तेषां 'तत्पुरुषः' । केन? 'त्वत्संस्तवेन' भवत्स्तवनेन । तव संस्तवस्त्वत्संस्तवस्तेन 'तत्पुरुषः' । पापं किंलक्षणम् ? 'भवसन्ततिसन्निबद्धं' जन्मकोटिसमर्जितम् । भवानां सन्ततिर्भवसन्ततिः 'तत्पुरुषः', भवसन्तत्या सन्निबद्धं भवसन्ततिसन्निबद्धं 'तत्पुरुषः । कस्मात् ? 'क्षणात्' घटिकाषष्ठांशेन, स्तोककालादित्यर्थः । अमुमेवार्थ दृष्टान्तेन (द्र)ढयतिइव-यथा शार्वरमन्धकार सूर्याशुभिन्नं सत् क्षयमुपैति । 'उपैति' इति क्रियापदम् । किं कर्तृ? 'अन्धकारं' तमः । के कर्मतापन्नम् ? 'क्षयं नाशम् । 'उपैति' प्रयाति । अन्धकार किंलक्षणम् ? 'शार्वर' कृष्णपक्षान्तरात्रिसंभवम् । शर्वर्या भवं शार्वरम् । पुनः किंलक्षणं अन्धकारम् ? 'आक्रान्तलोकं' व्याप्तविश्वम् । आक्रान्तो लोको येन तद् 'बहुव्रीहिः'। पुनः किंलक्षणमन्धकारम् ? 'अलिनीलं' मधुकरकुलकृष्णम् । अलिवन्नीलमलिनीलं 'तत्पुरुषः' । पुनः किंभूतमन्धकारम् ? 'अशेष' सकलम् । न विद्यते शेषो यत्र तद् ‘बहुब्रीहिः । न तु स्तोकं, पापस्यापि विशेषणमेतत् । पुनः किंभूतमन्धकारम् ? 'सूर्याशुभिन्नं' सहस्रकरैर्विदारितम् । सूर्यस्यांशवः सूर्यांशवः 'तत्पुरुषः', सूर्याशुभिभिन्नं सूर्याशुभिन्नं 'तत्पुरुषः । कथम् ? 'आशु' शीघ्रम् । यथा तिमिरनाशहेतुः सूर्योदयः, तथा दुरितनाशहेतुर्जिनस्तवः । इति सप्तमवृत्तार्थः॥७॥
स्तवारम्भकारणं दृ(द्र)ढयन्नाह-(मत्वेतीत्यादि)।
व्याख्या-हे नाथ! इदं तव स्तवनं मया आरभ्यते कर्मोक्तिः इत्यन्वयः । 'आर. भ्यते' इति क्रियापदम् । केन का? 'मया' । 'आरभ्यते' करणायोद्यम्यते । किं कर्मतापन्नम् ? 'संस्तवनं' स्तोत्रम् । कस्य ? 'तव' भवतः । संस्तवनं किंभूतम् ? 'इदम्' । मया कथंभूतेनापि ? 'तनुधियाऽपि' स्वल्पमतिनाऽपि । तनुः धीर्यस्य स तनुधीरतेन 'बहुव्रीहिः' । किं कृत्वा ? 'मत्वा' अवबुध्य । कथम् ? 'इति' । किम् ? पूर्वोक्तयुक्त्या स्तवकरणं दुष्करं पापहरं चेति । इदं संस्तवनं सतां चेतो हरिष्यति कोक्तिः। 'हरिष्यति' इति क्रियापदम् । किं कर्तृ? 'संस्तवनम्। किं कर्मतापन्नम् ? 'मनः' । केषाम् ? 'सतां' सज्ज.
सन्क्यः कोक्तिः' इति प्रतिभाति । २'कव॒क्तिः' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org