________________
श्रीकनककुशलगणिविरचिता
१२९ किंलक्षणः ? 'प्रवृत्तः' । किं कर्तुम् ? ('कर्तुम्') विधातुम् । कं कर्मतापन्नम् ? 'स्तव' स्तोत्रम् । कस्य? 'तव' भवतः। अहं कीदृशोऽपि? 'विगतशक्तिरपि' सामर्थ्यहीनोऽपि । विशेषेण गता विगता, विगता शक्तिर्यस्य स 'बहुव्रीहिः' । अहं किंभूतः? 'सः'। कथम् ? 'तथापि' । कस्मात् 'भक्तिवशात्' आन्तरभावतः । भक्तेर्वशो भक्तिवशस्तस्मात् 'तत्पुरुषः । अत्राप्यर्थसमर्थनमाह-मृगः किं मृगेन्द्र-सिंह नाभ्येति? अपि तु अभ्येति । 'अभ्येति' इति क्रियापदम् । कः कर्ता ? 'मृगः' हरिणः । 'अभ्येति' आभिमुख्येन भवति, सम्मुखमागच्छतीत्यर्थः । कं कर्मतापन्नम् ? 'मृगेन्द्र' सिंहम् । मृगाणामिन्द्रो मृगेन्द्रस्तं 'तत्पुरुषः'। किमर्थम् ? 'परिपालनार्थ' रक्षणार्थम् । परिपालनायेति परिपालनार्थ 'तत्पुरुषः' । कस्य ? 'निजशिशो' आत्मबालकस्य । निजस्य शिशुर्निजशिशुस्तस्य 'तत्पुरुषः' । किं कृत्वा ? 'अविचार्य' अपोलोच्य । किं कर्मतापन्नम् ? 'आत्मवीर्य' निजबलम् । आत्मनो वीर्यमात्मवीर्य तत् 'तत्पुरुषः' । कया? 'प्रीत्या' स्नेहेन । कथम्? 'किम्' । यथा मृगो निजबालरक्षणार्थ सिंहामिमुखं प्रवर्तते, तथाऽहमपि तव स्तवं कर्तुं प्रवृत्तः । इति पञ्चमवृत्तार्थः ॥ ५॥
अथ कविरसामर्थ्य सति स्तुतिकरणे वाचालताहेतुमाह-(अल्पेत्यादि)। व्याख्या-हे नाथ! त्वद्भक्तिर्मा मुखरीकुरुते इत्यन्वयः । 'मुखरीकुरुते' इति क्रियापदम् । का की? 'त्वद्भक्तिः' त्वद्रागः । 'मुखरीकुरुते' वाचालं विधत्ते इत्यर्थः । तव भक्तिस्त्वद्भक्तिः 'तत्पुरुषः । अमुखरं मुखरं कुरुते इति मुखरीकुरुते । कं कर्मतापन्नम् ? 'मां' मानतुङ्गाचार्यम् । कथम् ? 'एव' निश्चयेन । कस्मात् ? 'बलात्' हठात् । मां किलक्षणम् ? 'अल्पश्रुतं' स्तोकशास्त्रम् । अल्पं श्रुतं यस्य स तं 'बहुव्रीहिः' । अत एव मां किंभूतम् ? 'परिहासधाम' हास्यास्पदम् । परिहासस्य धाम परिहासधाम तत् 'तत्पुरुषः'। केषाम् ? 'श्रुतवतां' दृष्टशास्त्राणाम् । श्रुतं विद्यते येषां ते श्रुतवन्तस्तेषां 'बहुव्रीहिः'। अर्थदृढनार्थमाह-किलेति सत्ये । यत् कोकिलो मधौ मधुरं विरौतीत्यन्वयः। 'विरौति' इति क्रियापदम् । कः कर्ता ? 'कोकिलः' पिकः। 'विरौति' कूजति ब्रूते । किं कर्मतापन्नम् ? 'मधुरं' प्रियम् । कस्मिन् ? 'मधौ' वसन्ते । कथंभूतं मधुरम् ? यत् तत् चारुचूतकलिकानिकरैकहेतुरस्ति । 'अस्ति' इति क्रियापदम् । किं कर्तृ? 'तत्' तदतिमधुरम् । तत् कथंभूतम् ? 'चारुचूतकलिकानिकरैकहेतुः' चारुः-मनोज्ञो यः चूतः-आम्रस्तस्य कलिका-मञ्जर्यस्तासां निकरः-समूहः स एवैकः-अद्वितीयो हेतुः-कारणम् । चारुश्चासौ चूतश्च चारुचूतः 'कर्मधारयः', चारुचूतस्य कलिकाश्चारुचूतकलिकाः 'तत्पुरुषः', चारुचूतकलिकानां निकरः चारुचूतकलिकानिकरः 'तत्पुरुषः', एकश्चासौ हेतुश्चैकहेतुः 'कर्मधारयः', चारुचूतकलिकानिकर एव एकहेतुः चारुचूतकलिकानिकरैकहेतुः ‘कर्मधारयः' । तदित्यव्ययपदं सप्तम्यर्थवाचकं तस्मिन् मधुरमिति वा । यथा सुरभिसहकारमञ्जरीकृतभोजनः पुंस्कोकिलो
भ०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org