________________
भक्तामरतोत्रवृत्तिः जलसंस्थितं (तत्) 'सत्पुरुषः' । किं कृत्वा ? 'विहाय' त्यक्त्वा । कं कर्मतापन्नम् ? बालम्अहं शिशुम् । कोऽर्थः । रात्रौ जलप्रतिबिम्बितं चन्द्रमण्डलं बालो यथा आदातुमुद्यतो भवति, तथाऽहमपि बुद्धि विकलः सन् त्वां स्तोतुं समुद्यतोऽस्मि । इति तृतीयवृत्तार्थः ॥३॥
कुतो विगतलज्ज इत्याह-(वक्तुमित्यादि)
व्याख्या-हे 'गुणसमुद्र!' हे गुणरत्नाकर! । गुणानां समुद्रो गुणसमुद्रः तस्य सम्बोधने हे गुणसमुद्र ! 'तत्पुरुषः । ते गुणान् वक्तुं कः क्षमोऽस्ति ? कर्चुक्तिः, अपि तु न कोऽपि । यत्रान्यक्रियापदं न श्रूयते तत्रास्ति भवतीत्यादि पुरः प्रयुज्यत इति न्यायादत्रास्तीत्युच्यते । 'अस्ति' इति क्रियापदम् । कः कर्ता? । 'कः' जनः । किंलक्षणः? 'क्षमः' समर्थः । किं कर्तुम् ? 'वक्तुं' भाषितुम् । कान् कर्मतापन्नान् ? 'गुणान्' ज्ञानदर्शनचारित्रादीन् । कस्य? 'ते' तव । गुणाम् कथंभूतान् ? 'शशाङ्ककान्तान्' चन्द्रवदुज्वलान् । शशोऽङ्के यस्य स शशाङ्कः 'बहुव्रीहिः', शशाङ्कवत् कान्ताः शशाङ्ककान्तास्तान् 'तत्पुरुषः' । कः कीदृशोऽपि ? 'सुरगुरुप्रतिमोऽपि' बृहस्पतितुल्योऽपि । सुराणां गुरुः सुरगुरुः 'तत्पुरुषः', सुरगुरोः प्रतिमः सुरगुरुप्रतिमः 'तत्पुरुषः' । कया? 'बुद्ध्या' शेमुष्या । उक्काध्दाार्थमर्थान्तरं न्यस्यति-को वा अम्बुनिधि तरीतुमलं-समर्थो भवेत् ? अपितु न कश्चि. देव। 'भवेत्' इति क्रियापदम् (अध्याहार्यम्)। कः कर्ता ? 'कः' । 'भवेत्' स्यात् । कथम् ? 'अलं' समर्थः। किं कर्तुम् ? 'तरीतुम्' उल्लङ्घयितुम् । कं कर्मतापन्नम् ? 'अम्बुनिधि' समुद्रम् । अम्बु निधीयतेऽस्मिन्नित्यम्बुनिधिस्तम् । काभ्याम् ? 'भुजाभ्यां बाहुभ्याम् । कीदृशमम्बुनिधिम् ? 'कल्पान्तकालपवनोद्धतनकचक्र' कल्पान्तकालस्य-युगक्षयस्य पवनेन-वायुना उद्धतानि-दुर्दर्शनानि ऊर्ध्वं चलितानि वा नचक्राणि-यादोवृन्दानि यत्र (स तम्)। कल्पस्यान्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तश्चासौ कालश्च कल्पान्तकालः 'कर्मधारयः', कल्पान्तकालस्य पवनः कल्पान्तकालपवनः 'तत्पुरुषः', कल्पान्तकालपवनेनोद्धतानि कल्पान्तकालपवनोद्धतानि 'तत्पुरुषः', नकाणां चक्राणि नकचक्राणि 'तत्पुरुषः', कल्पान्तकालपवनोद्धतानि नक्रचक्राणि यत्र स तं 'बहुव्रीहिः' । यथा प्रलयमरुत्प्रेरितदुष्टजलजन्तुजातसंयुतयुगान्तक्षुब्धाब्धितरणं दुःशकं, तथा अर्हद्गुणकीर्तनमपि दुर्घटं तत्राहं प्रवृत्तः । इति चतुर्थ. तार्थः ॥४॥
अथ स्तवनकरणप्रवृत्तौ कारणमाह-(सोऽहमित्यादि)
व्याख्या-यद्यपि तव गुणान् वक्तुं न कोऽपि शक्तस्तथापि हे मुनीश-हे गणधस. दियतिस्वामिन् ! मुनीनामीशो मुनीशस्तस्य सम्बोधनं हे मुनीश! 'तत्पुरुषः', सोऽहं वच स्तवं कर्तृ प्रवृत्तोऽस्मीत्यन्वयः । 'अस्मि' इति क्रियापदम् । क कर्ता ? 'अहम्' । अहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org