________________
श्रीकनककुशलगणिविरचिता
१२७. प्रकर्षेण नत्वा । प्रणमनं पूर्व प्रणम्य । कथम् ? 'सम्यग्' भक्तिबहुमानयुक्तं गुणावबोधसहित वा। किं कर्मतापन्नम्? 'जिनपादयुगं' जिनस्य-प्रथमतीर्थकृतः पादौ-चरणौ तयोर्युगं-युग्मम् । जिनस्य पादौ जिनपादौ 'तत्पुरुषः', जिनपादयोर्युगं जिनपादयुगं तत् 'तत्पुरुषः' । जिनपादयुगं किंलक्षणम् ? 'आलम्बनम्' आधारम् । केषाम् ? 'जनानां' लोकानाम् । जनानां किं कुर्वताम् ? 'पतता' ब्रुडताम् । कस्मिन् ? 'भवजले' भवः-संसारः स एव जलम्उदकं तस्मिन् । भव एव जलं भवजलं तस्मिन् 'कर्मधारयः' । कस्मिन् काले जिनपादयुगमालम्बनम् ? 'युगादौ' अवसर्पिणीतृतीयारकपर्यन्तकाले । युगस्यादिर्युगादिः 'तत्पुरुषः' तस्मिन् युगादौ । जिनपादयुगं कीदृशम् ? 'उड्योतकं' उद्दीपकम्-उद्दयोतकारकम् । कासाम् ? 'भक्तामरप्रणतमौलिमणिप्रभाणां' भक्ता-भक्तिमन्तो ये अमरा-देवास्तेषां प्रणता-नम्रा ये मौलयः-शिरोमुकुटानि तेषां तेषु (वा) मणयो-रत्नानि इन्द्रनीलादीनि तेषां प्रभा-दीप्तयस्तासाम् । भक्ताश्च ते अमराश्च भक्तामराः 'कर्मधारयः', प्रणताश्च ते मौलयश्च प्रणतमौलयः 'कर्मधारयः', भक्तामराणां प्रणतमौलयः भक्तामरप्रणतमौलयः 'तत्पुरुषः', भक्तामरप्रणतमौलीनां मणयः भक्तामरप्रणतमौलिमणयः 'तत्पुरुषः', भक्तामरप्रणतमौलिमणीनां प्रभा भक्तामरप्रणतमौलिमणिप्रभाः तासां 'तत्पुरुषः', भगवत्पादयुगलस्यातिदीप्तत्वात् तासामपि प्रकाशकमित्यर्थः । पुनः किंलक्षणं जिनपादयुगम् ? 'दलितपापतमोवितानं' दलितं-क्षिप्तं पापमेव-किल्बिषमेव तमोवितानम्-अन्धकारजालं येन तत् । तमसो वितानं तमोवितानं 'तत्पुरुषः', पापमेव तमोवितानं पापतमोवितानं 'कर्मधारयः', दलितं पापतमोवितानं येन तत् (तद्) 'वहुव्रीहिः' । इति प्रथमद्वितीयवृत्तार्थः॥१-२॥
अथ कविः स्वौद्धत्यपरिहारार्थमाह-(बुद्ध्येत्यादि) व्याख्या-हे 'विबुधार्चितपादपीठ!' हे देवपूजितचरणासन! । पादयोः पीठं पादपीठं 'तत्पुरुषः', विबुधैरर्चितं (विबुधा० 'तत्पुरुषः' ), विबुधार्चितं पादपीठं यस्य स विबु. धार्चितपादपीठः 'बहुव्रीहिः', तस्य सम्बोधनं हे विबुधार्चितपादपीठ !। अहं विगतत्रपो. ऽस्मि इत्यन्वयः । 'अस्मि' इति क्रियापदम् । कः कर्ता? 'अहम्'। अहं कीदृशः? 'विगतत्रपः' निर्लजः। विगता त्रपा यस्मात् सः 'बहुव्रीहिः' । यतोऽहं कीदृशः? 'समुद्यतमतिः' सजीभूतबुद्धिः । समुद्यता मतिर्यस्य सः ‘बहुव्रीहिः' । किं कर्तुम् ? 'स्तोतुं' नोतुम् । कथम् ? 'विना' ऋते । कया? 'बुद्ध्या' शेमुष्या। उक्तार्थसमर्थनार्थमर्थान्तरन्यासमाहकोऽन्यो जनः सहसा इन्दुबिम्ब ग्रहीतुं इच्छति ? अपि तु न कश्चिदेवेत्यन्वयः। 'इच्छति' इति क्रियापदम् । कः कर्ता ? 'जनः' लोकः । 'इच्छति' वाञ्छति । जनः पुनः किंभूतः ? 'क' । पुनः किंलक्षणो जनः ? 'अन्यः' अपरः । किं कर्तुम् ? 'ग्रहीतुम्' आदातुम् । किं कर्मतापन्नम् ? 'इन्दुविम्बं' चन्द्रमण्डलम् । इन्दोर्बिम्बं इन्दुबिम्ब (तत्) 'तत्पुरुषः' । कथम्? 'सहसा' झटिति । इन्दुबिम्बं किंभूतम् ? 'जलसंस्थितम्' उदकमध्यस्थितम् । जले संस्थितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org