________________
श्रीकनककुशलगणिविरचिता ॥ भक्तामरस्तोत्रवृत्तिः ॥
श्रीऋषभनाथाय नमः । श्रीसरस्वत्यै नमः ॥ प्रणम्य परमानन्द-दायकं परमेश्वरम् ।
वृत्तिं भक्तामरस्याहं, कुर्वे बालहितैषिणीम् ॥१॥ भक्तामर० यः संस्तुत इत्यनयोाख्या-किलेति सत्ये । तं प्रथमं जिनेन्द्रं अहमपि स्तोष्ये इत्यन्वयः । रागादीनां जेतृत्वाजिनाः-सामान्यकेवलिनस्तेषामिन्द्रः-तीर्थकरस्तं अहमिति-मानतुङ्गाचार्यः कविः स्तोष्ये-स्तवनं विधास्ये । न केवलं सुरेन्द्रा एव स्तुवन्तः, किन्त्वहमपीत्यपेक्षया अपिशब्दो ज्ञेयः। जिनानामिन्द्रो जिनेन्द्रः 'तं 'तत्पुरुषः'। जिनेन्द्रं किंलक्षणम् ? 'प्रथमम्' आद्यम्, ऋषभमित्यर्थः । पुनः किंलक्षणं तं-तमिति यच्छब्दापेक्षम् । तं कम् ? 'यः सुरलोकनाथैः संस्तुतः' । 'संस्तुतः' इति क्रियापदम् । कैः कर्तृभिः? 'सुरलोकनाथैः' सुराणां लोकाः सुरलोकाः 'तत्पुरुषः', सुरलोकानां नाथाः सुरलोकनाथाः तैः 'तत्पुरुषः' देवनिवास(?)प्रभुभिः, इन्द्ररित्यर्थः । ‘संस्तुतः' सम्यग्भक्तिबहुमानपुरःसरं भगवदतिशायिगुणपरिज्ञानपूर्वकं वा स्तुतो-वन्दितः । सुरलोकनाथैः किंलक्षणैः ? 'उद्भूतबुद्धिपटुभिः' उद्भूता-प्रकटिता या बुद्धिः-मतिस्तया पटवो-दक्षाः तैः। उद्भूता चासौ बुद्धिश्च उन्न्तबुद्धिः 'कर्मधारयः', उद्भूतबुद्ध्या पटवः उद्भूतबुद्धिपटवः तैः 'तत्पुरुषः' । कुतः ईदृशैः? 'सकलवाड्मयतत्त्ववोधात्' सकलं-समस्तं यद् वाङ्मयं-शास्त्रं तस्य तत्त्वं-परमार्थस्तस्य बोधो-ज्ञानं तस्मात् । वाचा निवृत्तं वाङ्मयं तत्पुरुषः', सकलं च तद् वाड्मयं च सकलवाङ्मयं 'कर्मधारयः', सकलवाङ्मयस्य तत्त्वं सकलवाङ्मयतत्त्वं 'तत्पुरुषः', सकलवाङ्मयतत्त्वस्य बोधः सकलवाङ्मयतत्त्वबोधस्तस्मात् 'तत्पुरुषः', सर्वशास्त्रावगमादित्यर्थः । कैः कृत्वा संस्तुतः? 'स्तोत्रैः स्तवनैः । किंलक्षणैः स्तोत्रैः? 'जगत्रितयचित्तहरैः' जगतां-भुवनानां त्रितयं स्वर्ग-मर्त्य-पाताललक्षणं तस्य चित्तानि-मनांसि तानि हरन्ति-रञ्जथन्तीति तानि तैः। जगतां त्रितयं जगत्रितयं 'तत्पुरुषः', जगत्रितयस्य चित्तानि जगत्रि. तयचित्तानि 'तत्पुरुषः', जगत्रितयचित्तानि हरन्तीति जगत्रितयचित्तहराणि तैः 'तत्पुरुषः', जगत्रितयजन्तुमनआवर्जकैः। अत एव 'उदारैः' महाथै रुटैा । किं कृत्वा स्तोष्ये ? 'प्रणम्य'
तत्पुरुषः तम्' इति प्रतिभाति, परन्तु स्तोत्रस्यास्य समग्रकाव्येषु पद्धतिरियं दृष्टिपथमवतरति, तस्मात् किमयं लेखकदोषः कर्तृदोषो वेति प्रश्नः, अथवा किमियमपि पद्धतिः समीचीना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org