________________
भक्तामरस्तोत्रवृत्तिः । रम् । तमसो वितानं तमोवितानं 'तत्पुरुषः', ध्वस्तं तमोवितानं येन तद् 'बहुव्रीहिः । सूरमण्डलसमानं भगवद्रूपं, मेघतुल्यो नीलदलोऽशोकः । इत्यष्टाविंशतितमवृत्तार्थः ॥२८॥
(सिंहेत्यादि)। - व्याख्या-हे तीर्थनाथ ! तव-भवतो वपुः-देहो विभ्राजते-शोभते । वपुः किलक्षणम् ? 'कनकावदातं', कनकवदवदातं कनकावदातं 'तत्पुरुषः', हेमगौरम् । कस्मिन् ? 'सिंहासने' सुवर्णनिष्पन्नासने । सिंहासने किंविशिष्टे? 'मणिमयूखशिखाविचित्रे' रत्नकान्तिचूलाचारुणि । मणीनां मयूखाः मणिमयूखाः 'तत्पुरुषः', मणिमयूखानां शिखाः मणिमयूखशिखाः 'तत्पुरुषः', मणिमयूखशिखाभिर्विचित्रं तस्मिन् 'तत्पुरुषः' । दृष्टान्तमाहइव-यथा सहस्ररश्मेः, सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तस्य 'बहुव्रीहिः' सूर्यस्य बिम्बमण्डलं विभ्राजते । कस्मिन् ? 'तुङ्गोदयादिशिरसि' उन्नतपूर्वाचलशृङ्गे । उदयस्य अद्रिः उदयाद्रिः 'तत्पुरुषः', तुङ्गश्चासावुदयाद्रिश्च तुङ्गोदयाद्रिः 'कर्मधारयः', तुङ्गोदयाद्रेः शिरः तुङ्गोदयाद्रिशिरस्तस्मिन् 'तत्पुरुषः' । बिम्बं कथंभूतम् ? 'वियद्विलसदंशुलतावितानं' वियति -आकाशे विलसन्तो-द्योतमाना येशवः-करास्त एव लतावितानं-वल्लिविस्तारो यस्य तद् । विलसन्तश्च तेऽशवश्च विलसदंशवः 'कर्मधारयः', लतानां वितानं लतावितानं 'तत्पुरुषः', विलसदंशव एव लतावितानं विलसदंशुलतावितानं 'कर्मधारयः', वियति विलसदंशुलतावितानं यस्य तद् ‘बहुव्रीहिः' । इत्येकोनत्रिंशत्तमवृत्तार्थः ॥२९॥
(कुन्देत्यादि)। ___ व्याख्या-हे पारगत ! तव-भवतो वपुः-शरीरं विभ्राजते-चकास्ते । वपुः किंलक्षणम् ? 'कलधौतकान्तं' चामीकररुचिरम् । कलधौतवत् कान्तं कलधौतकान्तं 'तत्पुरुषः' । पुनः किंविशिष्टं वपुः? 'कुन्दावदातचलचामरचारुशोभम्' । चलानि च तानि चामराणि च चलचामराणि 'कर्मधारयः', कुन्दवदवदातानि कुन्दावदातानि 'कर्मधारयः', कुन्दावदातानि च तानि चलचामराणि च कुन्दावदातचलचामराणि 'कर्मधारयः', कुन्दावदातचलचामरैश्चावी कुन्दावदातचलचामरचावी 'तत्पुरुषः', कुन्दावदातचलचामरचार्वी शोभा यस्य तद् 'बहुव्रीहिः' । कुन्दावदातानि-कुन्दवद् विशदानि चलचामराणि-चपलवालव्यजनानि तैः चारुशोभ-मनोज्ञशोभम् । दृष्टान्तमाह-इव-यथा सुरगिरेः, सुराणां गिरिः सुरगिरिस्तस्य 'तत्पुरुषः' मेरोः शातकौम्भं, शातकुम्भस्येदं शातकौम्भं-सौवर्ण तट-शिखरं विभ्राजते । कथम् ? 'उच्चैः' अतिशयेन । पुनः किंलक्षणं तटम् ? 'उद्यच्छशाङ्कशुचिनिझरवारिधारम्'। निर्झराणां वारीणि निर्झरवारीणि 'तत्पुरुषः', निर्झरवारीणां धारा निर्झरवारिधाराः 'तत्पुरुषः', शशोऽके यस्य स शशाङ्कः 'बहुव्रीहिः', उद्य. चासौ शशाङ्कश्चोद्यच्छशाङ्कः 'कर्मधारयः', उद्यच्छशाङ्कवत् शुचयः उद्यच्छशाङ्कशुचयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org