________________
१२०
भक्तामर स्तोत्रम्
विचित्राणि यमकानुप्रासश्लेषव्यर्थव्यन्यादिविशेषेणाद्भुतानि स्पृहणीयाश्रयणीयतया पुष्पाatri ताम् । लक्ष्मीः- राज्यस्वर्गापवर्गसत्का श्रीरवशा-तद्गतचित्ताऽवश्यं तं मानतुचित्तोन्नत्युन्नतं स्तोत्रकविं वा समुपैति - समन्तात् पार्श्वमायाति । इति प्रथमोऽर्थः ॥ १ ॥
अथ (वा) यो भक्त्या - विच्छित्त्या गुणैः- सूत्रतन्तुभिर्निबद्धां - ग्रथितां मानं मा तया मयाप्रमाणेनोपलक्षितां रम्यपञ्चवर्णाद्भुतकुसुमां तव स्तोत्रमिव स्रजं - वनमालां लुप्तोपमया पुष्पमालां कण्ठगतां धत्ते - धारयति लक्ष्मीः- शोभा अवशा- निश्चितं तं मानतुङ्गं - प्रतिष्ठाप्राभ्युच्चं समुपैति । इति द्वितीयोऽर्थः ॥ २ ॥
अथ (वा) यः स्तोत्रमिव स्रजं - वनमालाम्, लुप्तोपमा सर्वत्र ज्ञेया, मया - पद्मया भक्त्या - अनुरागेण जिनो - विष्णुरेव इन्द्रः- पतिस्तस्य गुणैर्जिनेन्द्रगुणैः प्रभुत्वादिभिर्निबद्धां - न्यस्तां चारुद्युतिवैविधसन्तानकादिकुसुमां कण्ठगतां धत्ते लक्ष्मीः - वार्धिकनी अः कृष्णः तस्य वशा - योषित् केशवकलत्रं तं मानतुङ्गं साभिमानं पुरुषोत्तममायाति ॥ इति तृतीयोऽर्थः ॥ ३ ॥
अथ (वा) जिनो - विष्णुः इन्द्रः- सुरेन्द्रस्तयोर्गुणैः - शौर्येश्वर्यादिभिरुपलक्षितो विक्रमी परमेश्वरो यः पुष्पमालां प्रोक्तस्वरूपां कण्ठगतां बिभर्ति, लक्ष्मीः - सकलभूमिश्रीः अवशा - तदायत्ता "वीरभोग्या वसुन्धरा" इति वचनात् मानतु - साहङ्कारं तं समुपैति ॥ इति चतुर्थोऽर्थः ॥ ४ ॥
अथ (वा) यः सामान्योऽपि पुष्पदाम धारयति स लक्ष्मीवान् स्यात् । अथ यो अमयाअलक्ष्म्या कलितोऽपि जनो भक्त्या बहुविधरतभङ्ग्या गुणैः - माधुर्याद्यैर्निबद्धां - स्ववशीकृतां रुचिरवर्णविचित्रपुष्पां - कान्तवपुर्द्युतिविशिष्टतिलक माल्याभरणां, चित्रस्तिलक उच्यते, arrer कामिनीमिति गम्यम्, कण्ठगतां धत्ते - परिरभते, निरन्तरं भजत इत्यर्थः । लक्ष्मीस्तं मानतुं पुरुषगणनागण्यं समायाति अवशा-तदधीना ॥ इति पञ्चमोऽर्थः ॥ ५ ॥
१ यमक - लक्षणम् -
२ अनुप्रास-लक्षणम् -
३ श्लेष-लक्षणम् -
" स्यात् पादपदवर्णाना - मावृत्तिः संयुता युता । यमकं मिन्नवाच्याना -मादिमध्यान्तगोचरम् ॥”
Jain Education International
- वाग्भटालङ्कारे (अ० ४, श्लो० २२ )
तुल्यश्रुत्यक्षरावृत्ति-रनुप्रासः स्फुरद्गुणः । अतत्पदः स्याच्छेकानां, लाटानां तत्पदश्च सः ॥"
४ “तिलके तमालपत्र - चित्र पुण्ड्र - विशेषकाः ।"
- वाग्भटा० (अ० ४, श्लो० १७ )
“अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिः श्लेषः ।"
- काव्या० ( पृ० २२७ )
- अभिधानचिन्तामणी (का० ३, श्लो० ३१७ )
For Private & Personal Use Only
www.jainelibrary.org