________________
श्रीमानतुङ्गसूरिविरचितम्
पुष्पधारणाद् वरस्त्रीसेवनात् दरिद्रोऽपि पुमान् श्रीमान् स्यात् । उक्तं च"शिरः सपुष्पं चरणौ सुपूजितौ वराङ्गनाऽसेवन मल्प भोजनम् । अनग्नशायित्वमपर्वमैथुनं
चिरप्रनष्टां श्रियमानयन्ति ॥ १ ॥ " - वंशस्थविलम्
अथ (a) यः पुमान्, स्वयंवरे तद्गुणरञ्जितपतिं वराक्षिप्तां भक्त्या रचनया मया-1 - शोभया गुणैः- सुवर्णसूत्रैर्निबद्धां-नद्धां चारुरुचिनानाविधकुसुमां स्तोत्रमिव स्रजं मालां कपटगतां धत्ते, लक्ष्मीरिव लक्ष्मीः श्रीसमरूपा स्त्री अवशा - कामविह्वला तं मानतुङ्गं वपुः प्रमाणप्राप्तं सरलसर्वलक्षणपूर्णं समुपैति - दूरादपि तत्पार्श्वमायातीत्यर्थः ॥ इति षष्ठोऽर्थः ॥ ६ ॥ अनेन पुरुषस्य सौभाग्यातिशयः प्रकाशितः । अन्यथा पतिमनुसरन्ती प्रौढाऽपि स्त्री मानहीना दुःखिता स्यात् । उक्तं च
"म्म पियस्स पासे, सुप्पइ सिच्छाय (इ) दिज्जए अहरो । विसएहिं पिज्जइ महू दुक्खे दियहा गमिज्जन्ति ॥ १ ॥ " - आर्या ध्वनिरिह पत्यनुसरणं मानिन्याः, प्रौढस्त्रीणां स्नेहो वर्धत एवाहरहः । उक्तं च" जैम्मन्तरे न विहडइ पोढमहिलाण जं कियं पिम्मम् ।
कालं (लिं) दि हविरहे अज्जवि कालं जलं वहइ ॥ १ ॥ " - आर्या
तु
वढा विवोढारं व्रजन्ती भर्तुः सौभाग्यं विवृणोतितरां (इति) लक्ष्म्यभिगमनेनोक्तं भवति । स्तोत्रेऽप्यधीती जनः सौभाग्यकलितः श्रिया सदा समाश्रयिष्यते इति तात्पर्यार्थः । अत्र पुष्पमाला शब्दोऽभीष्टशकुनत्वेन महोत्सवानन्दहेतुः । उक्तमेागमेऽपि - "मणं संजयं दंतं, सुमणं मोयगा दहिं ।
मीणं घंटं पडागं च, सिद्धमत्थं वियागरे ॥ १ ॥ " - अनु०
१ छाया---
गम्यते प्रियस्य पार्श्वे सुप्यते तस्येच्छया दीयते अधरः । विषयेभ्यः पीयते मधु दुःखेन दिवसा निर्गम्यन्ते ॥
२ 'सिजाए अहरोवि' इति ग-पाठः ।
३ छाया
जन्मान्तरेऽपि न विघटति प्रौढ महिलानां यत् कृतं प्रेम | कालिन्दी कृष्ण विर हे अद्यापि कालं जलं वहति ॥
४ 'संश्रयिष्यते' इति क-ग-पाठः । ५ ओव० ।
६ छाया-
Jain Education International
श्रमणं संयतं दान्तं सुमनः मोदकान् दधि । मीनं घटं पताकां च (दृष्ट्वा ) सिद्धमर्थ व्यागृणीयात् ॥
७ 'वयागरे इति ग-पाठः ।
भ० १६
१२१
For Private & Personal Use Only
www.jainelibrary.org