________________
श्रीमानतुङ्गसूरिविरचितम्
११९ यत्तदोनित्याभिसम्बन्धात् तस्य पुरुषस्य आशु-शीघ्रं भयं नाशं उपयाति प्राप्नोति । 'उपयाति' इति क्रियापदम्। किं कर्तृ ? 'भयम्'। किं कर्मतापन्नम् ? 'नाशम्'। इवोत्प्रेक्ष्यते(क्षणे?)। 'भिया इव' भीत्या इव । भयस्यापि भीतिर्जायते तेन अष्टधा भयं तस्य न स्यादिति भावः । कीदृशं भयम् ? 'मत्तद्विपेन्द्रमृगराजवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं' मत्तो-मदवान् द्विपेन्द्रो-हस्ती मृगराजः-सिंहः दावानलो-दावाग्मिः अहिः-सर्पः सङ्ग्रामो-रणः वारिधिः-समुद्रः महोदरं-जलोदररोगः बन्धनंरोधः, तेभ्यो जातम् ॥
समासाश्च-द्विपानां इन्द्रो-द्विपेन्द्रः, मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः, मृगाणां राजा मृगराजा, महच्च तत् उदरं च महोदरं, बाहुलकात् समासः, मत्तद्विपेन्द्रश्च मृगराजश्च दधानलश्व अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनानि, तेभ्य उत्तिष्ठते इति मत्त०, एतदुपलक्षणात् सर्वमपि भयं याति ॥ इति काव्यार्थः ॥ ४३ ॥
Thy hymn is a proof against all sorts of calamities.
The danger arising from the intoxicated lordly elephants, ( 2 ) the kings of beasts (lions), (3) conflagrations, (4) serpants, (5) wars, (6) oceans, (7) dropsy and ( 8 ) confinements speedily disappears as if through fear in the case of that talented man who recites this hymn in Thy praise. ( 43 )
अथ स्तवम
अथ स्तवप्रभावसर्वस्वमाह
स्तोत्रस्रजं तव 'जिनेन्द्र! गुणैर्निबद्धां
भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्त्रं
तं 'मानतुङ्ग'मवशा समुपैति लक्ष्मीः ॥ ४४ ॥ गु० वि०-हे जिनेन्द्र !-केवलिपते! इह-जगत्यां यो जनोऽजन-अनवरतं तव स्तोत्रं-तव संस्तवनं बहुपदसन्दर्भितत्वात् अगिव स्तोत्रसक तां स्तोत्रमालां कण्ठगतां धत्तेकण्ठपीठलुठितां करोति पठतीत्यर्थः । किंभूताम् ? भक्त्या-भावपूर्व मया-श्रीमानतुङ्गसूरिणा गुणैः-पूर्वोक्तैर्ज्ञानाद्यैर्निबद्धां रचिताम् , अथ(वा) जिनेन्द्रगुणैः-अर्हद्गुणैः स्वयंबुद्ध(त्व)सहजवैराग्यादिभिर्निबद्धां-गुम्फितां, रुचिरा-मनोज्ञा वर्णा अकाराद्या द्विपश्चाशदेव
१ तृतीयार्थविचारणे 'जिनेन्द्रगुणैनिः' इति पाठः। २ तुर्यार्थविचारणे 'भक्त्याऽमया' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org