________________
११६
भक्तामरस्तोत्रम् अथ बन्दिबन्धनभयं नुदन्नाह
आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा
गाढं बृहन्निगडकोटिनिघृष्टजवाः। स्वनाममत्रमनिशं मनुजाः स्मरन्तः
सयः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ गु०वि०-हे अप्रतिचक्राचर्चितचरण! आपादकण्ठं-पदगलं यावद् उरुजलवेष्टिसाझा:-गुरुलोहदामव्याप्तवपुषः गाढं-निबिडं बृहन्निगडकोटिनिघृष्टजङ्घा:-विकटाष्टीलाग्रकषितनलकिनीका मनुजाः-नराः त्वन्नाममन्त्रं-ॐ ऋषभाय नमः इति पदं अनियंसदा जपन्तो-ध्यायन्तः सद्यः-तत्कालं स्वयं-आत्मनैव विगतबन्धनभया:-ध्वस्तबन्ध. शङ्का भवन्ति-जायन्ते । इति वृत्तार्थः ॥ ४२ ॥
एतस्य महिमा पूर्व श्रीमानतुङ्गाचार्याणां निविडनिगडशृङ्खलाजालभञ्जनादभूत् । तदा त्वनेकेषां राजनियोगिनां लोहान्दुकत्रुटिः (राजवृन्देच्छुटिः)
___ "म्लेच्छलुप्तसुरवात-प्रभूतातिशये कलौ ।
रणपालस्य सञ्जातं, निबिडान्दुकभञ्जनम् ॥ १॥"-अनु० श्री अजयमेरु'दुर्गपरिसरबहुग्रामग्रामणीः सहजदानविनयगुणप्रीणितदर्शनिमालो (१) रणपालोऽजनि राजपुत्रः।
"अन्नदानं महादानं, प्रणामो दर्शनेषु च।
___ अविरुद्धं द्वयं चैतत् , कर्तुमहिमहेतवे ॥१॥"-अनु० इति पद्यं बह्वमस्त । स च जैनमुनिसङ्गत्या भद्रकस्वभावो भक्तामरस्तवं पञ्चपरमेष्ठिमन्त्रमपाठीत्। श्रीयुगादिजिने भक्तिभरः स्तवमहिमार्थवेत्ता च स धर्मपालकतया साधूनां चेतसि शतपत्रमाल्यमिव महोद्भटतया म्लेच्छानां हृदि शल्यमिवासीत् । एकदा 'अजयमेरु'दुर्गस्थदुष्टमीरेण छलं लब्ध्वा स बद्धः सपुत्रः। कलियुगदुर्विलसितमेतत् । उक्तं च
"सीदन्ति सन्तो विलसन्त्यसन्तः
पुत्रा वियन्ते जनकश्चिरायुः । परेषु मैत्री स्वजनेषु रोषः
पश्यन्तु लोकाः कलिखेलितानि ॥१॥-इन्द्रवत्रा सङ्कुचन्ति कलौ तुच्छाः, प्रवर्धन्ते महाधियः ।
ग्रीष्मे सरांसि शुष्यन्ति, कामं वार्धिस्तु वर्धते ॥२॥"-अनु० १ अष्टीला-हषद्विशेषः। २ नलकिनी-जङ्घा । ३ अन्दूक-शृङ्खला। ४ धनुश्चितितोऽयं क-पाठः । ५०तसर्वदर्श' इति ग-पाठः। ६ 'भक्तिपरः' इति क-पाठः। 'खेलनानि' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org