________________
श्रीमानतुङ्गसूरिविरचितम् अतो नाचलत् मनोधर्मात् तस्य महाशयस्य । सपुत्रश्चालितो 'योगिनी'पुरं प्रति प्राप्तश्च। तदा जलालदी(लुद्दी?)नसुरत्राणो राज्यं करोति । तेन जीर्ण दिल्ली'दुर्गमध्ये गाढशृङ्खलनिगडैर्बद्धो बन्दौ क्षेपितः सपुत्रः। तत्र रणपालः शुचिर्भक्तामरस्तवस्य द्विचत्वारिंशं वृत्तं दध्यावहर्निशम् । दशसहरुयां पूर्णायां निशीथिन्यां रणरणन्नूपुररवोज्जीवितमदना मणिमयमेखलाकलापकिङ्किणीवाणवशीकृतत्रिभुवना स्थूलनिस्तुलनिर्मलमुक्ताफलहारावलिदासीकृततारकनाता कमलमृदुलसरलकराङ्गुलिपरिहितोर्मिकारत्नकान्तिदर्शनपूरितमानवसमीहितजाता भ्रमरश्रेणिकरणिवेणिदण्डमिषसेवकीकृतनागलोका शृङ्गारश्लोका काचिद् रमणी तरुणी रमणीयरूपा-वत्स! (शीघ्रं) शीघ्रमुत्तिष्ठेति जल्पन्ती तत्पुरः प्रादुर्भूता। रणपालोऽजल्पत्-जननि! का त्वं ? देवी वा मानवी वा विद्याधरी वा? । साऽवदत्गरुडवाहना श्रीयुगादिजिनभक्ता भक्तामरस्तोत्रस्मर्तृरक्षाकरी सुरी चक्रेश्वरी वर्तते, तस्या अहं किङ्करी प्रतीहारी त्वद्वन्दिमोचनाय प्रेषिताऽस्मि चक्रेश्वरीस्वामिन्येति । रणपालोऽरणत्-देवि! त्वमेव मे चक्राधिकाऽसि, परं कथमुत्तिष्ठामि करचरणनियन्त्रितोऽहम् । देव्युवाच-स्पृश करचरणौ । सोऽस्माक्षीत् , पुरःपतितनिगडाष्टीलकुलमद्राक्षीत् । पुत्रस्याप्यपतन् बन्धनानि । स्वयमुदघटिष्ट कारौकःकपाटसम्पुटम् । तावुत्तिष्ठन्तौ वारितौ देव्या । रक्षाप्राहरिकास्तावदैयरुः । तौ तथैव दृष्ट्वा जग्मुः । देवीदर्शितसोपानपथेन दुर्गमारूढौ समुत्लुत्याधः पतितौ पट्टदुकूलच्छन्नहंसरोमशय्योपरीव । ततश्चेलतुः स्वग्राम प्रति । साऽपि राजचमूः केटकेऽलगत् । तौ समायान्ती सेनामपश्यताम् । सा न पश्यति स्म तौ । कटकं शाकम्भरीमजयमेरुदुर्ग च यावद् यात्वा व्यावर्तितम् । रणपालः सनन्दनः श्रेयसा स्वस्थानमाशिश्राय। 'चित्रकूट'दुर्गे चिरं स्वकुटुम्बयुक् सुखमन्वभूद् धर्म च पालयामास ॥
॥ इत्यष्टाविंशी कथा ॥ मे० वृ०-अथ बन्धभयनाशमाह-(आपादेत्यादि)। हे जिनेन्द्र ! मनुजा विगतबन्धभया भवन्ति इति क्रियासण्टङ्कः । भवन्ति' इति क्रियापदम् । के कर्तारः ? 'मनुजाः' मानवाः । कीदृशाः ? 'विगतबन्धभयाः' रोधादिकष्टभीतिवर्जिताः । कथम् ? 'सद्यः' शीघ्रम् । केन ? 'स्वयं आत्मना, न तु परप्रयोगेण । किं कुर्वन्तः ? अनिशं-सदा त्वन्नाममन्त्रं स्मरन्त:-ध्यायन्तः । पुनः कीदृशाः ? ('आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गाः') आपादकण्ठंचरणगलप्रदेशं यावत् उरुः-महान् यः शृङ्खलो-लोहरज्जुस्तेन नियन्त्रितशरीराः । पुनः कीदृशाः ? ('गाढं बृहन्निगडकोटिनिघृष्टजवाः') गाढं-अत्यन्तं बृहत्-गुरुयों निगडो-लोकप्रसिद्धः पादपाशस्तस्य कोटि:-अग्रं तेन संघट्टितजङ्घादेशाः ॥
समासास्तु-पादौ च कण्ठश्च पादकण्ठं, प्राण्यङ्गत्वादेकवद्भावः, पादकण्ठं मर्यादीकृत्य इति आपादकण्ठं, विभक्त्यर्थे अव्ययीभावः । उरुश्चासौ शृङ्खलश्च उरुशृङ्खलः, तेन वेष्टितं अङ्गं येषां ते
कारागृहे । २ 'स्थलनिस्तल' इति ख-पाउः। ३ कारायाः-बन्धनस्य ओकः-गृहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org