________________
श्रीमानतुङ्गसूरिविरचितम् ज्ञात्वा दूरीकृता सा । राजहंसस्य क्रमेण राज्यमभवत् । श्वशुरेणापि शुद्धिलब्धा । मानानिवृत्तं चित्तम् । सर्वैः स्वकर्म भुज्यते इत्यङ्गीकृतं पुत्र्या वचः । उक्तं च
“सबो पुवकयाणं, कम्माणं पावए फलविवागम् ।। अवराहेसु गुणेसु अ, निमित्तमत्तं परो होइ ॥१॥-आर्या सुखस्य दुःखस्य न कोऽपि दाता
परो ददातीति कुबुद्धिरेषा। पुरा कृतं कर्म सदैव भुज्यते
शरीर ! हे निस्तर यत् त्वया कृतम् ॥२॥"-उपेन्द्रवत्रा इति विबुध्य मानगिरिनृपः कलावतीदुहितरमानाय्यापूजयत् । क्षमिता च । सर्वे सुखभाजनं बभूवुः । राजहंसो राजा जिनधर्ममाराधयत् प्रभावतीप्रतिबोधवचसा श्रीउदापिचरमराजर्षिवत् कलावतीपुण्यकथनेन । चिरं सुखिताऽभूत् कलावती॥
॥ इति सप्तविंशतितमी कथा ॥२७॥ मे० वृ०-अथ रोगभयभेदमाह-(उद्भूतेत्यादि)।
हे जिनेन्द्र ! मां मकरध्वजतुल्यरूपा भवन्ति इत्यन्वयः। भवन्ति' इति क्रियापदम् । के कर्तारः ? ('माः) मनुष्याः । किविशिष्टाः ? 'मकरध्वजतुल्यरूपाः' कन्दर्पसहशाकाराः । पुनः किंविशिष्टाः ? 'उद्भूतभीषणजलोदरभारभुना' उद्भूतः-प्रादुर्भूतो भीषणो-रौद्रो यो जलोदरो-रोगविशेषः तस्य भारेण-संघटेन भुनाः-वक्राः । पुनः किं. १ 'शोच्यां' शोकयोग्यां 'दशां' अवस्थां उपगताः' प्राप्ताः । पुनः किं० १ ('च्युत०') च्युता-गलिता जीवितस्य-आयुष आशा-अमिलापो येषां ते तथारूपाः । पुनः किंविशिष्टरूपाः ? 'त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः' तव चरणकमलरेणुलिप्तगात्राः॥
समासाश्च-भीषणं च जलोदरं च भीषणजलोदरं, जलभृतं उदरं जलोदरं, उद्भूतं चासौ भीषणजलोदरं च उद्भूतभीषणजलोदरं, तस्य भारेण भुमा उद्भूतभीषणजलोदरभारभुनाः । शोचितुं योग्या शोच्या ताम् । च्युता जीवितस्य आशा येषां ते तथा । तव पादौ त्वत्पादौ, त्वत्पादावेव पङ्कजे त्वत्पादपङ्कजे, तयो रजः त्वत्पादपङ्कजरजः, तदेव अमृतं त्वत्पादपङ्कजरजोऽमृतं, तेन दिग्धो देहो येषां ते तथा। मकरो ध्वजे यस्य स मकरध्वजः, मकरध्वजेन तुल्यं रूपं येषां ते तथा ॥ इति काव्यार्थः॥४१॥
Dropsy is easily cured by serving Thee.
The mortals, who are bent down under the burden of dreadful dropsy that has arisen, who are reduced to a deplorable condition and who have lost all hopes of surviving become Cupid-like in beauty, when they anoint their body with the ambrosia of the pollen of the lotuses ( in the form) of Thy feet. (41)
--
छाया
सर्वः पूर्वकृतानां कर्मणां प्रामोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रः परो भवति ॥
..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org