________________
भक्तामरस्तोत्रम् जाड्येनोल्लसितं जगत् सुमहिते 'मित्रेऽपि यन्मन्दता
तन्नूनं कलिरेष दुःसहतरः शीतर्तुना स्पर्धते ॥ १॥"-शार्दूल० इति । तत्र तरुकिशलयप्लोषकं पान्थमनोरथमालाशोषकं संयोगिजनतोषकं कन्दर्पदर्पपोषकं दरिद्रजातदूषकं शिशिरपातं दृष्ट्वा वने तरुपत्राण्यास्तीर्य सक्थनि तन्मौलिं कृत्वाऽस्थात् । स कलावतीमवक्-प्रिये! मुञ्च मां कैदर्यम् । को हेमावलीदृषदोमणिकाचयोगैजीखरयोः कल्पवल्लीपञ्चाङ्गुलयोर्मेलः । त्वं (तु) सर्वत्र मानं लप्स्यसे । उक्तं च
"शूराश्च कृतविद्याश्च, याश्च रूपधनाः स्त्रियः।
यत्र यत्र गमिष्यन्ति, तत्र तत्र कृतालयाः॥१॥"-अनु० साऽवक्-प्राणनाथ! किमुच्यते ? किं कुलस्त्रीचेष्टितं न जानीथ ?
"गतविभवं रोगयुतं, निवयं भाग्यवर्जितं स्वपतिम् ।
दैवतवत् सेवन्ते, कुलस्त्रियस्ता न शेषाः स्युः॥१॥"-आर्या उक्तं च
"दिनानां च निशानां च, यथा ज्योतिर्विभूषणम् ।
सतीनां च यतीनां च, तथा शीलं विभूषणम् ॥ १॥"-अनु० इत्युक्ते विदितसर्वतत्स्वरूपः कुलीनेयमिति जोषं स्थितः तुतोष च।(तौ द्वावपि ) प्रातः प्रयाणं चक्रतुः । मध्याह्ने तस्थतुः तरुतले पत्युः शय्या कृता (कलावत्या)। तस्मिन् शयाने सा पवित्रा पतिरोगोपशमनोपायं मार्गयमाणा भक्तामरस्तवैकचत्वारिंशद्वत्तगुणनावसरे पत्युरुदरान्मुखे सर्पमुखं निःसृत्यास्थात्, आसन्नवल्मीकाग्रादपरं सर्पमुखं च । उभावपि भुजगौ चक्राधिष्ठितावन्योऽन्यं विवदन्तौ मर्म निजं निजमूचतुः। वल्मीकसर्प आह-रे दुराचार ! सत्पुरुषरूपविनाशक! यदि कश्चन राजिकाम् अत्यम्लतक्रेण सहास्मै दत्ते, तदा त्वं स्थानाद् यासि । उदरसर्प आह-रे सञ्चयकर! कदर्यवत् कश्चित् त्वद्विलेऽत्युष्णं तैलं क्षिपति, तदा त्वदधिष्ठितं निधानधनं स विलसति, त्वं च विलीयसे इत्युक्त्वा स्वं स्वं स्थानमीयतुः सौ । कलावती सर्व ददर्श शुश्राव च । प्रत्यक्षीभूय चक्रेश्वरी स्तवजापप्रभावान्मयैतच्चक्रे इत्युक्त्वाऽन्तर्दधौ । सा तत्र स्थिता आसन्नगोकुलात् तक्रराजिकापानाद् भर्तुाध्युपशमं विदधे । स्वभावरूपो जातरूपसमदेहकान्तिर्जातो राजहंसः। पत्ये कथयित्वा तैलक्षेपान्निधानं ललौ । ततः कलावती चक्रेश्वरीप्रभावाद् उरगयो रवागभ. वदिति भत्रेऽभणत् । स तत्पृष्टः स्वपितृजन्मादिकमभाणीत् । तयोक्तः स्वराज्यमभजत् । सधनं भार्यासनाथं तं दृष्ट्वा तुष्टो राजशेखरनृपतिः। कुमारस्य कमलाराज्ञीदुर्विलसितमिति
१ सुहृदि, पक्षे सूर्ये । २ जवायाम्। ३ कुस्सितोऽर्यः-स्वामी कदर्यः, कृपण इत्यर्थः तम् । ४ हेममालदृषदोः इति क-पाठः। ५हस्तिनीगर्दभयोः। ६ एरण्डः। ७ स्थित्वा' इति ग-पाठः। ८ सुवर्णम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org