________________
श्रीमानतुङ्गसूरिविरचितम्
११३ "नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा
विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः । फलं कर्मायत्तं यदि किममरैः ? किं च विधिना ? __ नमस्तत् कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १॥"-शिखरिणी
-(नीतिशतके श्लो० ९१) 'देवेनासृजता स्वयं जगति यद् यस्य प्रमाणीकृतं
तत् तस्योपनयेन्मनागपि महान् नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ २॥"-शार्दूल० इत्युक्ते रुष्टो राजा रोगग्रस्तरङ्कनरानयनाय दुष्टभटानाजिज्ञपत् । ते लघुभूतकरचरणं मलव्याप्तकरणं ज्वरिणं दुःखदारियशरणं राजहंसं गोपुरादानिन्युः सभाम् । राजा सर्वाझालङ्कारांस्त्याजयित्वा दण्डीखण्डचीवरान् परिधाप्य तमनिच्छन्तं तां पर्यणाययत् । असमञ्जसकृद् राजेति मन्त्रिसामन्तादयः शुशुचुः, इत्यचिन्तयंश्च
"सच्छंदं जंपिज्जइ, कत्थइ जं जं मणस्स पडिहाइ ।
अयसस्स न बीहिजइ, पहुत्तणं तेण रमणीयम् ॥१॥"-आर्या राजा-सत्यकर्मवादिनि! भुङ्क्ष स्वकर्मणः फलमिति भणित्वा शम्बलमात्रभर्तृयुतां तां नगरान्निरसीसरत् । साऽवक्
"समीहितं यन्न लभामहे वयं
प्रभो ! न दोषस्तव कर्मणो मम । दिवाऽप्युलूको यदि नावलोकते
तदाऽपराधः कथमंशुमालिनः? ॥१॥"-वंशस्थम् इत्याधुक्त्वा पतिं करे कृत्वा साश्रुपातं पुरीजने पश्यति चचाल कलावती । निशा समैत् । तदा हेमन्तर्तुः कलिरूपोऽस्ति । उक्तं च
"निर्दग्धाः कमलाकराः सुमनसो मम्लुः कलावानपि
प्रीत्यै नो किल कृष्णवर्मसु जनः प्रायेण बद्धादरः। १ देयेन प्रभुणा' इत्यारम्भको नवतितमः श्लोको महर्षिश्रीभर्तृहरिकृतनीतिशतके। २ छाया
स्वच्छन्दं जलप्यते क्वचित् यद् यद् मनसः प्रतिभाति ।
अयशसः न भीयते प्रभुत्वं तेन रमणीयम् ॥ ३ पाथये । ४ कमलानां-उत्पलानां आकराः-समूहाः, सरोवराणि वा, पक्षे कमलायाः-लक्ष्क्ष्याः भाकरी:गृहाणि । ५ पुष्पाणि, पक्षे पण्डिता देवा वा। ६ पक्षे चन्द्रः। ७ वह्नौ, पक्षे मलिनमार्गेषु ।
भ० १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org