________________
११२
भक्तामरस्तोत्रम् पश्चात् पुरस्थस्य राजहंसस्य बहुगदकरमगदमदापयत् । कुमारदेहे ज्यरजलोदरायो रोगाः प्रादुरभूवन् । कुमारेण सपत्नीमातुश्चेष्टितमिति मान्त्रिकात् ज्ञातम् । अत्रस्थल में मृत्युरेव (ग्रन्थाग्रं १४०० ) । उक्तं च
"दुष्टा भार्या शठं मित्रं, भृत्याश्चान्तरदायकाः।
ससर्पगृहवासश्च, मृत्युरेव न संशयः॥ १ ॥"-अनु० "शशी दिवसधूसरो गलितयौवना कामिनी __सरो विगतवारिज मुखमनक्षरं स्वाकृतेः। प्रभुधनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥१॥"-पृथ्वी नृपाङ्गणगते खले कथं जीव्यते इति ध्यात्वा जीवरक्षणायैकक एव निःसृतः पुरात् । कृच्छ्रेण गतो 'हस्तिनापुरम्' । सायं प्रतोल्यां स्थितः । तत्र मानगिरि म राजा । तत्पुत्री कलावती । सा जैनार्यिकाणां पार्श्व
"श्रीतीर्थेशस्य पूजा गुरुचरणयुगाराधनं जीवरक्षा
सत्पात्रे दानवृत्तिविषयविरमणं सद्विवेकस्तपश्च । श्रीमत्सङ्घस्य पूजा जिनपतिवचसा लेखनं पुस्तकेषु
सोपानश्रेणिरेषा भवतु तनुभृतां सिद्धिसौधाधिरोहे ॥ १॥"-स्रग्धरा इति श्रुत्वा जैनधर्ममग्रहीत् । भक्तामरस्तोत्रं शुद्धं पपाठ । चतुःषष्टिकलापारगा जाता। अन्यदा कुमार्या सभागतायां राजाऽहंयुः सभ्यसामन्तानुवाच । भो! भवद्भिः कस्य कर्मणा भुज्यते राज्यलक्ष्मीः ? । त ऊचुः-देवकर्मणेति । साऽन्तर्जहास । राजाऽऽह-वत्से! किमिति हसितम् ? । सा आह-सेवकाः स्वामिरुचितं जानन्तोऽपि कुर्वन्ति । उकं च
"प्रणमत्युन्नतिहेतो-जीवितहेतोविमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः, को मूर्खः सेवकादन्यः॥१॥"-आर्या किञ्च
"मौनान्मूकः प्रवचनपैटुर्जल्पको वातलो या
धृष्टः पार्थे भवति च तथा दूरतश्चाप्रगल्भः। क्षान्त्या भीर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥१॥"-मन्दाक्रान्ता इति त्वत्कर्णामृतमनृतं ब्रुवतेऽमी । अतो हासः । राजा-शठे! त्वं कथं जीवसि? । सा स्वकर्मणेत्युवाच ।
'कुमारस्य दाहज्वरः' इति ख-पाठः। २ अहङ्कारी। ३ 'पटुर्वातलो जल्पको का' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org