________________
श्रीमानतुङ्गसूरिविरचितम् पाठीनपीठाः, भयं दत्ते इति भयदः, स चासौ उल्वणः-प्रकटश्च भयदोल्बणः विशेषणसमासः, भय. दोल्बणश्चासौ वाडवाग्निः-वडवानलश्च भयदोल्बणवाडवाग्निः, भीषणानि-रौद्राणि च तानि नकचक्राणि च भीषणनकचक्राणि, भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निथ भीषणन. क्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः, क्षुमिता:-क्षोभं गता भीषणनकचक्रपाठीनपीठभयदोल्वण. वाडवानयो यत्र स तथा तस्मिन् । अम्भसा निधिरम्भोनिधिस्तस्मिन् । रङ्गेत्यादिसमासः प्रागुक्तः एव ॥ इति काव्यार्थः ॥ ४०॥
Thy panegyrist is not afraid of a stormy ocean.
Those who remember Thee fearlessly reach ( the shore,) even when they are sailing in a vessel floating on the tops of the rising billows in the ocean, which is the abode of a manifest submarine fire and of the hosts of the ferocious and excited crocodiles and alligators. ( 40 )
अथ रोगभयं भिन्दन्नाह
उद्भूतभीषणजलोदरभार ग्नाः
शोच्यां दशामुपगता श्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा
मां भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥ गु० वि०-हे कर्मव्याधिधन्वन्तरे! मा-नराः उद्भूतभीषणजलोदरभारभुनाउत्पन्नरौद्रोदरवृद्धिव्याधिभरवक्रीकृता भग्ना वा पाठे मोटिताः शोच्यां दशामुपगताःदीनामवस्थां प्राप्ताः च्युतजीविताशाः-त्यक्तजीवितव्यवाञ्छाः एवंभूताः त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः-भवच्चरणकमलरेणुसुधालिप्तवपुषो मकरध्वजतुल्यरूपाः-कामसममूर्तयः -कमनीयकान्तयो भवन्ति । यथा सुधापानाभिषेकात् सर्वरोगनाशस्तथा भवत्पदपद्माश्रयणादपि सकलव्याघेरुपशमः । इति वृत्तार्थः ॥ ४१॥ प्रभावप्रकटनं यथा--
चक्रेश्वरीप्रसादेन, ज्ञातौषधिचिकित्सया।
राजहंसकुमारस्य, रोगा नेशुर्महाभयाः॥१॥-अनु० श्री'उज्जयिन्यां' पुरि राजशेखरो राजा । पट्टदेवी विमला । तत्कुक्षिभूः राजहंसकुमारः सकलकलापारीणः शास्त्राभ्यासप्रवीणश्च । अथ दैवान् विमलायां विपन्नायां कमला नाम पट्टराज्ञी जाता। सा राजहंसे द्वेषं धत्ते । अस्मिन् सपत्नीभवे राजवल्लभे सति मत्सुतस्य कथं राज्यम् ? । अतः तन्मृतये छलं पश्यति । साऽन्यदा राज्ञि देशजयाय प्रस्थिते
१ भन्नाः' इत्यपि पाठः कचित् । २ 'भग्नपाठे मोटिताः' इति ख-पाठः। ३ पट्टे देवी' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org