________________
११०
भक्तामरंस्तोत्रम् इति कथितेऽभ्युन्नता घनाः। ववुर्वाताः । वृत्तोक्तस्वरूपेऽम्भोधौ धनावहः स्तवं सस्मार । कलकलं कुर्वन्तः समकालमलपन् नाविकाः-श्रेष्ठिन् ! एकाग्रहो मा भूः । देव्युपदां देहि यथा कुशलं स्याद् वाहनानाम् । आत्मार्थे सर्वेऽधर्ममपि समाचरन्ति विज्ञाः । उक्तं च
"त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥१॥-अनु० आपदर्थे धनं रक्षेद्, दारान् रक्षेद् धनैरपि ।
आत्मानं सततं रक्षेद् , दारैरपि धनैरपि ॥ २॥"-अनु० अल्पनाशे बहुरक्षणं युक्तम् ।
"सर्वनाशे समुत्पन्ने, अर्धं त्यजति पण्डितः।
अर्धेन कुरुते कार्य, सर्वनाशो हि दुस्तरः॥१॥"-अनु० तत् सर्वथाऽप्यात्मा रक्ष्य एव । अतः पशुबलिं यच्छेत्युक्तोऽपि स्तवध्यानावाचलत् श्रेष्ठिसत्तमः । तस्मिंश्चत्वारिशं वृत्तं जपति व्यन्तरीकृतोत्पाताः प्रलीनाः । विकटाक्षी प्रकटीभूताऽनध्य रत्नमढौकयत् । देव्युवाच-भो धर्ममते! त्वन्निश्चलव्रतपालनतया चक्रान ज्ञया च तुष्टाऽस्मि । वरं ब्रूहि
"अमोघा वासरे विद्यु-दमोघं निशि गर्जितम् ।
- नारीबालवचोऽमोघ-ममोघं देवदर्शनम् ॥१॥"-अनु० इत्युक्ते श्रेष्ठी जीवहत्यावारणवरमयाचत । अमृतभुजां देवानां नोचितः पशुवधाभिलाषो निरर्थकः पापहेतुः । देव्याऽङ्गीकृतम् । ततः परं छुटिताः पशुबलेः पोतवणिजः। वाहनपञ्चकं स्तम्भतीर्थ क्षणेनायातं क्षेमेण । असख्यधनभाग् चक्रायुक्श्रीयुगादिजिनप्रासादमचीकरत् । तीर्थयात्रा नैकशः मूर्ति (सूत्रि?)ताः पवित्राः। अत्यन्तानन्दसुखभाजनमजनि धनावहः॥
॥ इति षविंशी कथा ॥ मे० वृ०-समुद्रभयनाशमाह-(अम्भोनिधावित्यादि)।
हे जिनेन्द्र ! जना भवतः स्मरणात् ब्रजन्ति-यान्ति इत्यन्वयः । 'यान्ति' इति क्रियापदम् । के कर्तारः ? 'जनाः' । किं कर्मतापन्नम् ? 'स्वस्थानम्' इति शेषः। कस्मात् ? 'भवतः स्मरणात्' मनसि चिन्तनात् । किं कृत्वा ? 'त्रासं विहाय' (आकस्मिकं भयं ) परित्यज्य । कीदृशा जनाः ? अम्भोनिधौ-समुद्रे रङ्गन्त:-सर्वतश्वलन्तो ये तरङ्गाः-कल्लोलास्तेषां शिखराणि-अग्राणि तेषु स्थितानि यानपात्राणि-प्रवहणानि येषां ते । कीदृशे अम्भोनिधौ ? 'क्षुभितभीषणनकचक्रपाठीनपीठभयदोल्बणवाडवानौ । अर्थस्तु समासादेव, स चैवम्-नक्राणां-जलचराणां चक्राणि-समूहा नकचक्राणि, पाठीनाश्व पीठाच मत्स्यभेदी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org