________________
श्रीमानतुङ्गसूरिविरचितम्
१०९ "वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला
सेव्याः सन्मुनयश्च वन्धचरणाः श्रव्यं च जैनं वचः । सच्छीलं परिपालनीयमतुलं कार्य तपो निर्मलं
ध्येया पञ्चनमस्कृतिश्च विदुषा भाव्या च सद्भावना ॥ १॥"-शार्दूल० तत्रापि धर्मे जीवदया सर्वत्रापि सारोक्ता
"'देविंदचक्कवट्टि-तणाई भुत्तूण सिवसुहमणन्तम् । पत्ता अणंतसत्ता, अभयं दाऊण जीवाणम् ॥१॥"-आर्या यो दद्यात् काञ्चनं मेलं, कृत्स्नां चापि वसुन्धराम् । सागरं रत्नपूर्ण वा, न च तुल्यमहिंसया ॥२॥-अनु० हेतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणम् ।
अप्पाणं दिवसाणं, कएण नासेइ अप्पाणम् ॥ ३ ॥"-आर्या इत्याकर्ण्य प्राणान्तेऽपि स्थूलं निरपराधं जीवं न हन्मि न घातयामीति व्रतं जग्राह । श्रापकोऽभूत् । भक्तामरस्तवं पठित्वाऽस्माच्चि । सोऽन्यदा प्रभूताऽपि विभूतिस्त्यागभोगादिना क्षीयते निर्व्यवसायानामिति विमृश्य पुरपरद्वीपयोग्यभाण्डैवाहनपञ्चकमापूर्य शुभमुहूर्वे नारिकेलादिभिः समुद्रपूजां कृत्वा वोहित्थमारूढः। युगपञ्चलितानि पक्षिवत् के. निपातपक्षप्रेरणया चहित्रकाणि । स्वल्पैर्दिनः 'सिंहल द्वीपं प्रापुः। जातो यथेप्सितो लाभः। मणिमुक्ताप्रवालकपूरचन्दनादीनि प्रतिभाण्डानि जगृहिरे । वोहित्थानि भृत्वा पूरितानि स्वदेशं प्रति । क्रमेणान्तःसागरं प्रविष्टेषु यानपात्रेषु नाविका अचीकथन्-श्रेष्ठिन् ! इह विकटाक्षी देवी पशुबलिं गृह्णाति सांयात्रिकेभ्यः । ब्रूहि यथा तटवर्तिग्रामादानीय करं दद्मः, अन्यथा श्रेयो न । श्रेष्ठ्याऽऽह स्म-भो कर्णधाराः! मह्यं पशुधातो न रुचितः। सर्वथा जीवान न हन्मि न घातयामीति । भोगं निरेनसं यच्छामि देव्याः। यत उक्तं च
"दमो देवगुरूपास्ति-दानमध्ययनं तपः। सर्वमप्येतदफलं, हिंसां चेन्न परित्यजेत् ॥१॥-अनु० हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि।।
कुलाचारधियाऽप्येषा, कृता कुलविनाशिनी ॥२॥"-अनु० १ छाया
देवेन्द्रचक्रवर्तित्वानि भुक्त्वा शिवसुखमनन्तम् ।
प्राप्ता अनन्तसत्त्वा अभयं दावा जीवेभ्यः । २छाया
हत्वा परप्राणान् आत्मानं यः करोति सप्राणम् (सबलम्)।
(स.) अल्पानां दिवसानां कृते नाशयति भात्मानम् ॥ ३ बालिकरादिभिः। ४ नावम् । ५ के-जले निपात्यन्ते-नीयन्ते नावोऽनेनेति केनिपातः-अरित्रम् । ६ ममामालि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org