________________
१०१
श्रीमानतुङ्गसूरिविरचितम् यशस्करे कर्मणि मित्रसङ्ग्रहे
धनव्ययोऽष्टासु न गण्यते बुधैः ॥१॥"-वंशस्थम् मित्रैर्महेश्याभ्यणे स श्लाषितः । कन्या च याचिता श्रेष्ठिना।
"कुलं च शीलं च सनाथता च
विद्या च वित्तं च वपुर्वयश्च । एतानि सप्त प्रविलोक्य देया।
ततः परं भाग्यवशा हि कन्या ॥१॥"-उपजातिः इति विचार्य वर्या दिक्करी तस्म दत्ता । परिणीय स्वपुरमागमद् गृहिणीयुक् कर्मणः । गृहागतो जलवत् स्वधर्म शिश्राय । श्वपुच्छवद् वक्रतां नाहासीत् । सा सुश्राविका निशि न भुङ्क्ते, अन्यदेवान् न वन्दते, अनन्तकायाद्यभक्ष्यं नाश्नाति । श्वशुरवर्गो मिथ्यादृक् । प्रिये ! स्वकुलोचितं धर्म कुरु, स्त्रियः पतिवम॑गा भान्ति इत्युक्ताऽपि पत्या सा धर्म नात्यजत् । कर्मणो भिन्नधर्मेयमिति द्वितीयां पर्यणैषीत् । वारकेण द्वयोः करे भुते। दृढव्रता निशाशनं न दत्ते । तं याचन्तं ब्रूते-कान्त! रात्रिभोजने महान् दोषः । उक्तं च
"उलूककाकमार्जार-गृध्रशम्बरशूकराः ।
अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥ १॥"-अनु० इत्युक्तोऽपि नाबुध्यत । दुस्त्यजो दर्शनरागः । उक्तं च___"कामरागस्नेहरागा-वीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥ १॥”-अनु०
__ -(वीतरागस्तोत्रे, प्र० ६, श्लो० १०) माहेश्वरी पतिं प्रतारयति स्म । एषा भिन्नधर्मा दुराचारैव भासते । स्वदेवगुरुनमनबुद्ध्या कापि प्रयाति । कार्मणं वा कारयति न वेनि । परं त्वां कलङ्कयिष्यति । यदुचितं तत् कुरु । कर्मणः कार्मणकलङ्कभिया दृढव्रतामृतये कृष्णकुम्भीनसं कुम्भे क्षित्वा तद्भुहान्तः प्रच्छन्नमतिष्ठिपत् । प्रातस्तद्गृहमागात् । सा भक्तामरस्तवं गुणन्त्यासीत् । पीठादुत्थिता । तेनोक्तम्-मध्ये घटान्तर्मणिमालाऽस्ति तामानय । सा सप्तत्रिंशं वृत्तं स्मरन्ती गृहान्तरगमत् । घटे करं चिक्षिप्य रज्जुमिव स्रजमिव स्तवोक्तस्वरूपं सरीसृपं निःशङ्का चक्राम। लात्वा पतिपाणौ ददाना दूरादेव तेनोक्तम्-सत्यशीले! दूरे मुश्च सर्पम् । मुक्तस्तया। मिलितः श्वशुरपक्षः । सपत्न्यपि स्तम्भितं क्षमाशीलं कृष्णोरगं विलोक्य एषा सर्पस्तम्भविद्याविदिति मेने । तत्रान्तरिक्षवागुदच्छलत्-रे रे पापाः! किं चिन्तयत ? । इयं दृढव्रता पतिव्रता लोकद्वयहितं धर्ममाराधयति । एतद्धर्मप्रभावादेव भुजङ्गस्तम्भः । योऽस्या
१ श्यामसर्पम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org